Sundarakanda, Sarga 15, Verse 1
ततः कुमुदषण्डाभो निर्मलं निर्मलः स्वयम्
प्रजगाम नभश्चन्द्रो हंसो नीलमिवोदकम्
Containing 32 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततः कुमुदषण्डाभो निर्मलं निर्मलः स्वयम्
प्रजगाम नभश्चन्द्रो हंसो नीलमिवोदकम्
साचिव्यमिव कुर्वन्स प्रभया निर्मलप्रभः
चन्द्रमा रश्मिभिः शीतैः सिषेवे पवनात्मजम्
स ददर्श ततः सीतां पूर्णचन्द्रनिभाननाम्
शोकभारैरिव न्यस्तां भारैर्नावमिवाम्भसि
दिदृक्षमाणो वैदेहीं हनूमान्मारुतात्मजः
स ददर्शाविदूरस्था राक्षसीर्घोरदर्शनाः
एकाक्षीमेककर्णां च कर्णप्रावरणां तथा
अकर्णां शङ्कुकर्णां च मस्तकोच्छ्वासनासिकाम्
अतिकायोत्तमाङ्गीं च तनुदीर्घशिरोधराम्
ध्वस्तकेशीं तथाकेशीं केशकम्बलधारिणीम्
लम्बकर्णललाटां च लम्बोदरपयोधराम्
लम्बौष्ठीं चिबुकौष्ठीं च लम्बास्यां लम्बजानुकाम्
ह्रस्वां दीर्घां च कुब्जां च विकटां वामनां तथा
करालां भुग्नवस्त्रां च पिङ्गाक्षीं विकृताननाम्
विकृताः पिङ्गलाः कालीः क्रोधनाः कलहप्रियाः
कालायसमहाशूलकूटमुद्गरधारिणीः
वराहमृगशार्दूलमहिषाजशिवा मुखाः
गजोष्ट्रहयपादाश्च निखातशिरसोऽपराः
एकहस्तैकपादाश्च खरकर्ण्यश्वकर्णिकाः
गोकर्णीर्हस्तिकर्णीश्च हरिकर्णीस्तथापराः
अनासा अतिनासाश्च तिर्यन्नासा विनासिकाः
गजसंनिभनासाश्च ललाटोच्छ्वासनासिकाः
हस्तिपादा महापादा गोपादाः पादचूलिकाः
अतिमात्रशिरोग्रीवा अतिमात्रकुचोदरीः
अतिमात्रास्य नेत्राश्च दीर्घजिह्वानखास्तथा
अजामुखीर्हस्तिमुखीर्गोमुखीः सूकरीमुखीः
हयोष्ट्रखरवक्त्राश्च राक्षसीर्घोरदर्शनाः
शूलमुद्गरहस्ताश्च क्रोधनाः कलहप्रियाः
कराला धूम्रकेशीश्च रक्षसीर्विकृताननाः
पिबन्तीः सततं पानं सदा मांससुराप्रियाः
मांसशोणितदिग्धाङ्गीर्मांसशोणितभोजनाः
ता ददर्श कपिश्रेष्ठो रोमहर्षणदर्शनाः
स्कन्धवन्तमुपासीनाः परिवार्य वनस्पतिम्
तस्याधस्ताच्च तां देवीं राजपुत्रीमनिन्दिताम्
लक्षयामास लक्ष्मीवान्हनूमाञ्जनकात्मजाम्
निष्प्रभां शोकसंतप्तां मलसंकुलमूर्धजाम्
क्षीणपुण्यां च्युतां भूमौ तारां निपतितामिव
चारित्र्य व्यपदेशाढ्यां भर्तृदर्शनदुर्गताम्
भूषणैरुत्तमैर्हीनां भर्तृवात्सल्यभूषिताम्
राक्षसाधिपसंरुद्धां बन्धुभिश्च विनाकृताम्
वियूथां सिंहसंरुद्धां बद्धां गजवधूमिव
चन्द्रलेखां पयोदान्ते शारदाभ्रैरिवावृताम्
क्लिष्टरूपामसंस्पर्शादयुक्तामिव वल्लकीम्
सीतां भर्तृहिते युक्तामयुक्तां रक्षसां वशे
अशोकवनिकामध्ये शोकसागरमाप्लुताम्
ताभिः परिवृतां तत्र सग्रहामिव रोहिणीम्
ददर्श हनुमान्देवीं लतामकुसुमामिव
सा मलेन च दिग्धाङ्गी वपुषा चाप्यलंकृता
मृणाली पङ्कदिग्धेव विभाति च न भाति च
मलिनेन तु वस्त्रेण परिक्लिष्टेन भामिनीम्
संवृतां मृगशावाक्षीं ददर्श हनुमान्कपिः
तां देवीं दीनवदनामदीनां भर्तृतेजसा
रक्षितां स्वेन शीलेन सीतामसितलोचनाम्
तां दृष्ट्वा हनुमान्सीतां मृगशावनिभेक्षणाम्
मृगकन्यामिव त्रस्तां वीक्षमाणां समन्ततः
दहन्तीमिव निःश्वासैर्वृक्षान्पल्लवधारिणः
संघातमिव शोकानां दुःखस्योर्मिमिवोत्थिताम्
तां क्षामां सुविभक्ताङ्गीं विनाभरणशोभिनीम्