Sundarakanda, Sarga 13, Verse 1
स वीक्षमाणस्तत्रस्थो मार्गमाणश्च मैथिलीम्
अवेक्षमाणश्च महीं सर्वां तामन्ववैक्षत
Containing 52 sacred Sanskrit shlokas with multi-author commentaries and translations.
स वीक्षमाणस्तत्रस्थो मार्गमाणश्च मैथिलीम्
अवेक्षमाणश्च महीं सर्वां तामन्ववैक्षत
सन्तान कलताभिश्च पादपैरुपशोभिताम्
दिव्यगन्धरसोपेतां सर्वतः समलंकृताम्
तां स नन्दनसंकाशां मृगपक्षिभिरावृताम्
हर्म्यप्रासादसंबाधां कोकिलाकुलनिःस्वनाम्
काञ्चनोत्पलपद्माभिर्वापीभिरुपशोभिताम्
बह्वासनकुथोपेतां बहुभूमिगृहायुताम्
सर्वर्तुकुसुमै रम्यैः फलवद्भिश्च पादपैः
पुष्पितानामशोकानां श्रिया सूर्योदयप्रभाम्
प्रदीप्तामिव तत्रस्थो मारुतिः समुदैक्षत
निष्पत्रशाखां विहगैः क्रियमाणामिवासकृत्
विनिष्पतद्भिः शतशश्चित्रैः पुष्पावतंसकैः
आमूलपुष्पनिचितैरशोकैः शोकनाशनैः
पुष्पभारातिभारैश्च स्पृशद्भिरिव मेदिनीम्
कर्णिकारैः कुसुमितैः किंशुकैश्च सुपुष्पितैः
स देशः प्रभया तेषां प्रदीप्त इव सर्वतः
पुंनागाः सप्तपर्णाश्च चम्पकोद्दालकास्तथा
विवृद्धमूला बहवः शोभन्ते स्म सुपुष्पिताः
शातकुम्भनिभाः केचित्केचिदग्निशिखोपमाः
नीलाञ्जननिभाः केचित्तत्राशोकाः सहस्रशः
नन्दनं विविधोद्यानं चित्रं चैत्ररथं यथा
अतिवृत्तमिवाचिन्त्यं दिव्यं रम्यं श्रिया वृतम्
द्वितीयमिव चाकाशं पुष्पज्योतिर्गणायुतम्
पुष्परत्नशतैश्चित्रं पञ्चमं सागरं यथा
सर्वर्तुपुष्पैर्निचितं पादपैर्मधुगन्धिभिः
नानानिनादैरुद्यानं रम्यं मृगगणैर्द्विजैः
अनेकगन्धप्रवहं पुण्यगन्धं मनोरमम्
शैलेन्द्रमिव गन्धाढ्यं द्वितीयं गन्धमादनम्
अशोकवनिकायां तु तस्यां वानरपुंगवः
स ददर्शाविदूरस्थं चैत्यप्रासादमूर्जितम्
मध्ये स्तम्भसहस्रेण स्थितं कैलासपाण्डुरम्
प्रवालकृतसोपानं तप्तकाञ्चनवेदिकम्
मुष्णन्तमिव चक्षूंषि द्योतमानमिव श्रिया
विमलं प्रांशुभावत्वादुल्लिखन्तमिवाम्बरम्
ततो मलिनसंवीतां राक्षसीभिः समावृताम्
उपवासकृशां दीनां निःश्वसान्तीं पुनः पुनः
ददर्श शुक्लपक्षादौ चन्द्ररेखामिवामलाम्
मन्दप्रख्यायमानेन रूपेण रुचिरप्रभाम्
पिनद्धां धूमजालेन शिखामिव विभावसोः
पीतेनैकेन संवीतां क्लिष्टेनोत्तमवाससा
सपङ्कामनलंकारां विपद्मामिव पद्मिनीम्
व्रीडितां दुःखसंतप्तां परिम्लानां तपस्विनीम्
ग्रहेणाङ्गारकेणैव पीडितामिव रोहिणीम्
अश्रुपूर्णमुखीं दीनां कृशामननशेन च
शोकध्यानपरां दीनां नित्यं दुःखपरायणाम्
प्रियं जनमपश्यन्तीं पश्यन्तीं राक्षसीगणम्
स्वगणेन मृगीं हीनां श्वगणाभिवृतामिव
नीलनागाभया वेण्या जघनं गतयैकया
सुखार्हां दुःखसंतप्तां व्यसनानामकोदिवाम्
तां समीक्ष्य विशालाक्षीमधिकं मलिनां कृशाम्
तर्कयामास सीतेति कारणैरुपपादिभिः
ह्रियमाणा तदा तेन रक्षसा कामरूपिणा
यथारूपा हि दृष्टा वै तथारूपेयमङ्गना
पूर्णचन्द्राननां सुभ्रूं चारुवृत्तपयोधराम्
कुर्वन्तीं प्रभया देवीं सर्वा वितिमिरा दिशः
तां नीलकेशीं बिम्बौष्ठीं सुमध्यां सुप्रतिष्ठिताम्
सीतां पद्मपलाशाक्षीं मन्मथस्य रतिं यथा
इष्टां सर्वस्य जगतः पूर्णचन्द्रप्रभामिव
भूमौ सुतनुमासीनां नियतामिव तापसीम्
निःश्वासबहुलां भीरुं भुजगेन्द्रवधूमिव
शोकजालेन महता विततेन न राजतीम्