Sundarakanda, Sarga 11, Verse 1
विमानात्तु सुसंक्रम्य प्राकारं हरियूथपः
हनूमान्वेगवानासीद्यथा विद्युद्घनान्तरे
Containing 69 sacred Sanskrit shlokas with multi-author commentaries and translations.
विमानात्तु सुसंक्रम्य प्राकारं हरियूथपः
हनूमान्वेगवानासीद्यथा विद्युद्घनान्तरे
संपरिक्रम्य हनुमान्रावणस्य निवेशनान्
अदृष्ट्वा जानकीं सीतामब्रवीद्वचनं कपिः
भूयिष्ठं लोडिता लङ्का रामस्य चरता प्रियम्
न हि पश्यामि वैदेहीं सीतां सर्वाङ्गशोभनाम्
पल्वलानि तटाकानि सरांसि सरितस्तथा
नद्योऽनूपवनान्ताश्च दुर्गाश्च धरणीधराः
लोडिता वसुधा सर्वा न च पश्यामि जानकीम्
इह संपातिना सीता रावणस्य निवेशने
आख्याता गृध्रराजेन न च पश्यामि तामहम्
किं नु सीताथ वैदेही मैथिली जनकात्मजा
उपतिष्ठेत विवशा रावणं दुष्टचारिणम्
क्षिप्रमुत्पततो मन्ये सीतामादाय रक्षसः
बिभ्यतो रामबाणानामन्तरा पतिता भवेत्
अथ वा ह्रियमाणायाः पथि सिद्धनिषेविते
मन्ये पतितमार्याया हृदयं प्रेक्ष्य सागरम्
रावणस्योरुवेगेन भुजाभ्यां पीडितेन च
तया मन्ये विशालाक्ष्या त्यक्तं जीवितमार्यया
उपर्युपरि वा नूनं सागरं क्रमतस्तदा
विवेष्टमाना पतिता समुद्रे जनकात्मजा
आहो क्षुद्रेण चानेन रक्षन्ती शीलमात्मनः
अबन्धुर्भक्षिता सीता रावणेन तपस्विनी
अथ वा राक्षसेन्द्रस्य पत्नीभिरसितेक्षणा
अदुष्टा दुष्टभावाभिर्भक्षिता सा भविष्यति
संपूर्णचन्द्रप्रतिमं पद्मपत्रनिभेक्षणम्
रामस्य ध्यायती वक्त्रं पञ्चत्वं कृपणा गता
हा राम लक्ष्मणेत्येव हायोध्येति च मैथिली
विलप्य बहु वैदेही न्यस्तदेहा भविष्यति
अथ वा निहिता मन्ये रावणस्य निवेशने
नूनं लालप्यते मन्दं पञ्जरस्थेव शारिका
जनकस्य कुले जाता रामपत्नी सुमध्यमा
कथमुत्पलपत्राक्षी रावणस्य वशं व्रजेत्
विनष्टा वा प्रनष्टा वा मृता वा जनकात्मजा
रामस्य प्रियभार्यस्य न निवेदयितुं क्षमम्
निवेद्यमाने दोषः स्याद्दोषः स्यादनिवेदने
कथं नु खलु कर्तव्यं विषमं प्रतिभाति मे
अस्मिन्नेवंगते कर्ये प्राप्तकालं क्षमं च किम्
भवेदिति मतिं भूयो हनुमान्प्रविचारयन्
यदि सीतामदृष्ट्वाहं वानरेन्द्रपुरीमितः
गमिष्यामि ततः को मे पुरुषार्थो भविष्यति
ममेदं लङ्घनं व्यर्थं सागरस्य भविष्यति
प्रवेशश्चिव लङ्काया राक्षसानां च दर्शनम्
किं वा वक्ष्यति सुग्रीवो हरयो व समागताः
किष्किन्धां समनुप्राप्तौ तौ वा दशरथात्मजौ
गत्वा तु यदि काकुत्स्थं वक्ष्यामि परमप्रियम्
न दृष्टेति मया सीता ततस्त्यक्ष्यन्ति जीवितम्
परुषं दारुणं क्रूरं तीक्ष्णमिन्द्रियतापनम्
सीतानिमित्तं दुर्वाक्यं श्रुत्वा स न भविष्यति
तं तु कृच्छ्रगतं दृष्ट्वा पञ्चत्वगतमानसं
भृशानुरक्तो मेधावी न भविष्यति लक्ष्मणः
विनष्टौ भ्रातरौ श्रुत्वा भरतोऽपि मरिष्यति
भरतं च मृतं दृष्ट्वा शत्रुघ्नो न भविष्यति
पुत्रान्मृतान्समीक्ष्याथ न भविष्यन्ति मातरः
कौसल्या च सुमित्रा च कैकेयी च न संशयः
कृतज्ञः सत्यसंधश्च सुग्रीवः प्लवगाधिपः
रामं तथा गतं दृष्ट्वा ततस्त्यक्ष्यन्ति जीवितम्
दुर्मना व्यथिता दीना निरानन्दा तपस्विनी
पीडिता भर्तृशोकेन रुमा त्यक्ष्यति जीवितम्
वालिजेन तु दुःखेन पीडिता शोककर्शिता
पञ्चत्वगमने राज्ञस्तारापि न भविष्यति