Sundarakanda, Sarga 10, Verse 1
स तस्य मध्ये भवनस्य वानरो; लतागृहांश्चित्रगृहान्निशागृहान्
जगाम सीतां प्रति दर्शनोत्सुको; न चैव तां पश्यति चारुदर्शनाम्
Containing 25 sacred Sanskrit shlokas with multi-author commentaries and translations.
स तस्य मध्ये भवनस्य वानरो; लतागृहांश्चित्रगृहान्निशागृहान्
जगाम सीतां प्रति दर्शनोत्सुको; न चैव तां पश्यति चारुदर्शनाम्
स चिन्तयामास ततो महाकपिः; प्रियामपश्यन्रघुनन्दनस्य ताम्
ध्रुवं नु सीता म्रियते यथा न मे; विचिन्वतो दर्शनमेति मैथिली
सा राक्षसानां प्रवरेण बाला; स्वशीलसंरक्षण तत्परा सती
अनेन नूनं प्रतिदुष्टकर्मणा; हता भवेदार्यपथे परे स्थिता
विरूपरूपा विकृता विवर्चसो; महानना दीर्घविरूपदर्शनाः
समीक्ष्य सा राक्षसराजयोषितो; भयाद्विनष्टा जनकेश्वरात्मजा
सीतामदृष्ट्वा ह्यनवाप्य पौरुषं; विहृत्य कालं सह वानरैश्चिरम्
न मेऽस्ति सुग्रीवसमीपगा गतिः; सुतीक्ष्णदण्डो बलवांश्च वानरः
दृष्टमन्तःपुरं सर्वं दृष्ट्वा रावणयोषितः
न सीता दृश्यते साध्वी वृथा जातो मम श्रमः
किं नु मां वानराः सर्वे गतं वक्ष्यन्ति संगताः
गत्वा तत्र त्वया वीर किं कृतं तद्वदस्व नः
अदृष्ट्वा किं प्रवक्ष्यामि तामहं जनकात्मजाम्
ध्रुवं प्रायमुपेष्यन्ति कालस्य व्यतिवर्तने
किं वा वक्ष्यति वृद्धश्च जाम्बवानङ्गदश्च सः
गतं पारं समुद्रस्य वानराश्च समागताः
अनिर्वेदः श्रियो मूलमनिर्वेदः परं सुखम्
भूयस्तावद्विचेष्यामि न यत्र विचयः कृतः
अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकः
करोति सफलं जन्तोः कर्म यच्च करोति सः
तस्मादनिर्वेद कृतं यत्नं चेष्टेऽहमुत्तमम्
अदृष्टांश्च विचेष्यामि देशान्रावणपालितान्
आपानशालाविचितास्तथा पुष्पगृहाणि च
चित्रशालाश्च विचिता भूयः क्रीडागृहाणि च
निष्कुटान्तररथ्याश्च विमानानि च सर्वशः
इति संचिन्त्य भूयोऽपि विचेतुमुपचक्रमे
भूमीगृहांश्चैत्यगृहान्गृहातिगृहकानपि
उत्पतन्निपतंश्चापि तिष्ठन्गच्छन्पुनः क्वचित्
अपावृण्वंश्च द्वाराणि कपाटान्यवघट्टयन्
प्रविशन्निष्पतंश्चापि प्रपतन्नुत्पतन्नपि
सर्वमप्यवकाशं स विचचार महाकपिः
चतुरङ्गुलमात्रोऽपि नावकाशः स विद्यते
रावणान्तःपुरे तस्मिन्यं कपिर्न जगाम सः
प्राकरान्तररथ्याश्च वेदिकश्चैत्यसंश्रयाः
श्वभ्राश्च पुष्करिण्यश्च सर्वं तेनावलोकितम्
राक्षस्यो विविधाकारा विरूपा विकृतास्तथा
दृष्टा हनूमता तत्र न तु सा जनकात्मजा
रूपेणाप्रतिमा लोके वरा विद्याधर स्त्रियः
दृष्टा हनूमता तत्र न तु राघवनन्दिनी
नागकन्या वरारोहाः पूर्णचन्द्रनिभाननाः
दृष्टा हनूमता तत्र न तु सीता सुमध्यमा
प्रमथ्य राक्षसेन्द्रेण नागकन्या बलाद्धृताः
दृष्टा हनूमता तत्र न सा जनकनन्दिनी
सोऽपश्यंस्तां महाबाहुः पश्यंश्चान्या वरस्त्रियः
विषसाद महाबाहुर्हनूमान्मारुतात्मजः
उद्योगं वानरेन्द्राणं प्लवनं सागरस्य च
व्यर्थं वीक्ष्यानिलसुतश्चिन्तां पुनरुपागमत्
अवतीर्य विमानाच्च हनूमान्मारुतात्मजः
चिन्तामुपजगामाथ शोकोपहतचेतनः