Valmiki Ramayana

Sundarakanda, Sarga 9

Containing 44 sacred Sanskrit shlokas with multi-author commentaries and translations.

Valmiki Ramayana

Sundarakanda, Sarga 9, Verse 1

अवधूय च तां बुद्धिं बभूवावस्थितस्तदा

जगाम चापरां चिन्तां सीतां प्रति महाकपिः

Valmiki Ramayana

Sundarakanda, Sarga 9, Verse 2

न रामेण वियुक्ता सा स्वप्तुमर्हति भामिनी

न भोक्तुं नाप्यलंकर्तुं न पानमुपसेवितुम्

Valmiki Ramayana

Sundarakanda, Sarga 9, Verse 3

नान्यं नरमुपस्थातुं सुराणामपि चेश्वरम्

न हि रामसमः कश्चिद्विद्यते त्रिदशेष्वपि

अन्येयमिति निश्चित्य पानभूमौ चचार सः

Valmiki Ramayana

Sundarakanda, Sarga 9, Verse 4

क्रीडितेनापराः क्लान्ता गीतेन च तथा पराः

नृत्तेन चापराः क्लान्ताः पानविप्रहतास्तथा

Valmiki Ramayana

Sundarakanda, Sarga 9, Verse 5

मुरजेषु मृदङ्गेषु पीठिकासु च संस्थिताः

तथास्तरणमुख्य्येषु संविष्टाश्चापराः स्त्रियः

Valmiki Ramayana

Sundarakanda, Sarga 9, Verse 6

अङ्गनानां सहस्रेण भूषितेन विभूषणैः

रूपसंलापशीलेन युक्तगीतार्थभाषिणा

Valmiki Ramayana

Sundarakanda, Sarga 9, Verse 7

देशकालाभियुक्तेन युक्तवाक्याभिधायिना

रताभिरतसंसुप्तं ददर्श हरियूथपः

Valmiki Ramayana

Sundarakanda, Sarga 9, Verse 8

तासां मध्ये महाबाहुः शुशुभे राक्षसेश्वरः

गोष्ठे महति मुख्यानां गवां मध्ये यथा वृषः

Valmiki Ramayana

Sundarakanda, Sarga 9, Verse 9

स राक्षसेन्द्रः शुशुभे ताभिः परिवृतः स्वयम्

करेणुभिर्यथारण्यं परिकीर्णो महाद्विपः

Valmiki Ramayana

Sundarakanda, Sarga 9, Verse 10

सर्वकामैरुपेतां च पानभूमिं महात्मनः

ददर्श कपिशार्दूलस्तस्य रक्षःपतेर्गृहे

Valmiki Ramayana

Sundarakanda, Sarga 9, Verse 11

मृगाणां महिषाणां च वराहाणां च भागशः

तत्र न्यस्तानि मांसानि पानभूमौ ददर्श सः

Valmiki Ramayana

Sundarakanda, Sarga 9, Verse 12

रौक्मेषु च विशलेषु भाजनेष्वर्धभक्षितान्

ददर्श कपिशार्दूल मयूरान्कुक्कुटांस्तथा

Valmiki Ramayana

Sundarakanda, Sarga 9, Verse 13

वराहवार्ध्राणसकान्दधिसौवर्चलायुतान्

शल्यान्मृगमयूरांश्च हनूमानन्ववैक्षत

Valmiki Ramayana

Sundarakanda, Sarga 9, Verse 14

कृकरान्विविधान्सिद्धांश्चकोरानर्धभक्षितान्

महिषानेकशल्यांश्च छागांश्च कृतनिष्ठितान्

लेख्यमुच्चावचं पेयं भोज्यानि विविधानि च

Valmiki Ramayana

Sundarakanda, Sarga 9, Verse 15

तथाम्ललवणोत्तंसैर्विविधै रागषाडवैः

हार नूपुरकेयूरैरपविद्धैर्महाधनैः

Valmiki Ramayana

Sundarakanda, Sarga 9, Verse 16

पानभाजनविक्षिप्तैः फलैश्च विविधैरपि

कृतपुष्पोपहारा भूरधिकं पुष्यति श्रियम्

Valmiki Ramayana

Sundarakanda, Sarga 9, Verse 17

तत्र तत्र च विन्यस्तैः सुश्लिष्टैः शयनासनैः

पानभूमिर्विना वह्निं प्रदीप्तेवोपलक्ष्यते

Valmiki Ramayana

Sundarakanda, Sarga 9, Verse 18

बहुप्रकारैर्विविधैर्वरसंस्कारसंस्कृतैः

मांसैः कुशलसंयुक्तैः पानभूमिगतैः पृथक्

Valmiki Ramayana

Sundarakanda, Sarga 9, Verse 19

दिव्याः प्रसन्ना विविधाः सुराः कृतसुरा अपि

शर्करासवमाध्वीकाः पुष्पासवफलासवाः

वासचूर्णैश्च विविधैर्मृष्टास्तैस्तैः पृथक्पृथक्

Valmiki Ramayana

Sundarakanda, Sarga 9, Verse 20

संतता शुशुभे भूमिर्माल्यैश्च बहुसंस्थितैः

हिरण्मयैश्च करकैर्भाजनैः स्फाटिकैरपि

जाम्बूनदमयैश्चान्यैः करकैरभिसंवृता

Valmiki Ramayana

Sundarakanda, Sarga 9, Verse 21

राजतेषु च कुम्भेषु जाम्बूनदमयेषु च

पानश्रेष्ठं तदा भूरि कपिस्तत्र ददर्श ह

Valmiki Ramayana

Sundarakanda, Sarga 9, Verse 22

सोऽपश्यच्छातकुम्भानि शीधोर्मणिमयानि च

राजतानि च पूर्णानि भाजनानि महाकपिः

Valmiki Ramayana

Sundarakanda, Sarga 9, Verse 23

क्वचिदर्धावशेषाणि क्वचित्पीतानि सर्वशः

क्वचिन्नैव प्रपीतानि पानानि स ददर्श ह

Valmiki Ramayana

Sundarakanda, Sarga 9, Verse 24

क्वचिद्भक्ष्यांश्च विविधान्क्वचित्पानानि भागशः

क्वचिदन्नावशेषाणि पश्यन्वै विचचार ह

Valmiki Ramayana

Sundarakanda, Sarga 9, Verse 25

क्वचित्प्रभिन्नैः करकैः क्वचिदालोडितैर्घटैः

क्वचित्संपृक्तमाल्यानि जलानि च फलानि च

Valmiki Ramayana

Sundarakanda, Sarga 9, Verse 26

शयनान्यत्र नारीणां शून्यानि बहुधा पुनः

परस्परं समाश्लिष्य काश्चित्सुप्ता वराङ्गनाः

Valmiki Ramayana

Sundarakanda, Sarga 9, Verse 27

काचिच्च वस्त्रमन्यस्या अपहृत्योपगुह्य च

उपगम्याबला सुप्ता निद्राबलपराजिता

Valmiki Ramayana

Sundarakanda, Sarga 9, Verse 28

तासामुच्छ्वासवातेन वस्त्रं माल्यं च गात्रजम्

नात्यर्थं स्पन्दते चित्रं प्राप्य मन्दमिवानिलम्

Valmiki Ramayana

Sundarakanda, Sarga 9, Verse 29

चन्दनस्य च शीतस्य शीधोर्मधुरसस्य च

विविधस्य च माल्यस्य पुष्पस्य विविधस्य च

Valmiki Ramayana

Sundarakanda, Sarga 9, Verse 30

बहुधा मारुतस्तत्र गन्धं विविधमुद्वहन्

स्नानानां चन्दनानां च धूपानां चैव मूर्छितः

प्रववौ सुरभिर्गन्धो विमाने पुष्पके तदा