Sundarakanda, Sarga 8, Verse 1
तत्र दिव्योपमं मुख्यं स्फाटिकं रत्नभूषितम्
अवेक्षमाणो हनुमान्ददर्श शयनासनम्
Containing 50 sacred Sanskrit shlokas with multi-author commentaries and translations.
तत्र दिव्योपमं मुख्यं स्फाटिकं रत्नभूषितम्
अवेक्षमाणो हनुमान्ददर्श शयनासनम्
तस्य चैकतमे देशे सोऽग्र्यमाल्यविभूषितम्
ददर्श पाण्डुरं छत्रं ताराधिपतिसंनिभम्
बालव्यजनहस्ताभिर्वीज्यमानं समन्ततः
गन्धैश्च विविधैर्जुष्टं वरधूपेन धूपितम्
परमास्तरणास्तीर्णमाविकाजिनसंवृतम्
दामभिर्वरमाल्यानां समन्तादुपशोभितम्
तस्मिञ्जीमूतसंकाशं प्रदीप्तोत्तमकुण्डलम्
लोहिताक्षं महाबाहुं महारजतवाससं
लोहितेनानुलिप्ताङ्गं चन्दनेन सुगन्धिना
संध्यारक्तमिवाकाशे तोयदं सतडिद्गुणम्
वृतमाभरणैर्दिव्यैः सुरूपं कामरूपिणम्
सवृक्षवनगुल्माढ्यं प्रसुप्तमिव मन्दरम्
क्रीडित्वोपरतं रात्रौ वराभरणभूषितम्
प्रियं राक्षसकन्यानां राक्षसानां सुखावहम्
पीत्वाप्युपरतं चापि ददर्श स महाकपिः
भास्करे शयने वीरं प्रसुप्तं राक्षसाधिपम्
निःश्वसन्तं यथा नागं रावणं वानरोत्तमः
आसाद्य परमोद्विग्नः सोऽपासर्पत्सुभीतवत्
अथारोहणमासाद्य वेदिकान्तरमाश्रितः
सुप्तं राक्षसशार्दूलं प्रेक्षते स्म महाकपिः
शुशुभे राक्षसेन्द्रस्य स्वपतः शयनोत्तमम्
गन्धहस्तिनि संविष्टे यथाप्रस्रवणं महत्
काञ्चनाङ्गदनद्धौ च ददर्श स महात्मनः
विक्षिप्तौ राक्षसेन्द्रस्य भुजाविन्द्रध्वजोपमौ
ऐरावतविषाणाग्रैरापीडितकृतव्रणौ
वज्रोल्लिखितपीनांसौ विष्णुचक्रपरिक्षितौ
पीनौ समसुजातांसौ संगतौ बलसंयुतौ
सुलक्षण नखाङ्गुष्ठौ स्वङ्गुलीतललक्षितौ
संहतौ परिघाकारौ वृत्तौ करिकरोपमौ
विक्षिप्तौ शयने शुभ्रे पञ्चशीर्षाविवोरगौ
शशक्षतजकल्पेन सुशीतेन सुगन्धिना
चन्दनेन परार्ध्येन स्वनुलिप्तौ स्वलंकृतौ
उत्तमस्त्रीविमृदितौ गन्धोत्तमनिषेवितौ
यक्षपन्नगगन्धर्वदेवदानवराविणौ
ददर्श स कपिस्तस्य बाहू शयनसंस्थितौ
मन्दरस्यान्तरे सुप्तौ महार्ही रुषिताविव
ताभ्यां स परिपूर्णाभ्यां भुजाभ्यां राक्षसाधिपः
शुशुभेऽचलसंकाशः शृङ्गाभ्यामिव मन्दरः
चूतपुंनागसुरभिर्बकुलोत्तमसंयुतः
मृष्टान्नरससंयुक्तः पानगन्धपुरःसरः
तस्य राक्षससिंहस्य निश्चक्राम मुखान्महान्
शयानस्य विनिःश्वासः पूरयन्निव तद्गृहम्
मुक्तामणिविचित्रेण काञ्चनेन विराजता
मुकुटेनापवृत्तेन कुण्डलोज्ज्वलिताननम्
रक्तचन्दनदिग्धेन तथा हारेण शोभिता
पीनायतविशालेन वक्षसाभिविराजितम्
पाण्डुरेणापविद्धेन क्षौमेण क्षतजेक्षणम्
महार्हेण सुसंवीतं पीतेनोत्तमवाससा
माषराशिप्रतीकाशं निःश्वसन्तं भुजङ्गवत्
गाङ्गे महति तोयान्ते प्रसुतमिव कुञ्जरम्
चतुर्भिः काञ्चनैर्दीपैर्दीप्यमानैश्चतुर्दिशम्
प्रकाशीकृतसर्वाङ्गं मेघं विद्युद्गणैरिव
पादमूलगताश्चापि ददर्श सुमहात्मनः
पत्नीः स प्रियभार्यस्य तस्य रक्षःपतेर्गृहे
शशिप्रकाशवदना वरकुण्डलभूषिताः
अम्लानमाल्याभरणा ददर्श हरियूथपः
नृत्तवादित्रकुशला राक्षसेन्द्रभुजाङ्कगाः
वराभरणधारिण्यो निषन्ना ददृशे कपिः