Sundarakanda, Sarga 7, Verse 1
तस्यालयवरिष्ठस्य मध्ये विपुलमायतम्
ददर्श भवनश्रेष्ठं हनूमान्मारुतात्मजः
Containing 69 sacred Sanskrit shlokas with multi-author commentaries and translations.
तस्यालयवरिष्ठस्य मध्ये विपुलमायतम्
ददर्श भवनश्रेष्ठं हनूमान्मारुतात्मजः
अर्धयोजनविस्तीर्णमायतं योजनं हि तत्
भवनं राक्षसेन्द्रस्य बहुप्रासादसंकुलम्
मार्गमाणस्तु वैदेहीं सीतामायतलोचनाम्
सर्वतः परिचक्राम हनूमानरिसूदनः
चतुर्विषाणैर्द्विरदैस्त्रिविषाणैस्तथैव च
परिक्षिप्तमसंबाधं रक्ष्यमाणमुदायुधैः
राक्षसीभिश्च पत्नीभी रावणस्य निवेशनम्
आहृताभिश्च विक्रम्य राजकन्याभिरावृतम्
तन्नक्रमकराकीर्णं तिमिंगिलझषाकुलम्
वायुवेगसमाधूतं पन्नगैरिव सागरम्
या हि वैश्वरणे लक्ष्मीर्या चेन्द्रे हरिवाहने
सा रावणगृहे सर्वा नित्यमेवानपायिनी
या च राज्ञः कुबेरस्य यमस्य वरुणस्य च
तादृशी तद्विशिष्टा वा ऋद्धी रक्षो गृहेष्विह
तस्य हर्म्यस्य मध्यस्थं वेश्म चान्यत्सुनिर्मितम्
बहुनिर्यूह संकीर्णं ददर्श पवनात्मजः
ब्रह्मणोऽर्थे कृतं दिव्यं दिवि यद्विश्वकर्मणा
विमानं पुष्पकं नाम सर्वरत्नविभूषितम्
परेण तपसा लेभे यत्कुबेरः पितामहात्
कुबेरमोजसा जित्वा लेभे तद्राक्षसेश्वरः
ईहा मृगसमायुक्तैः कार्यस्वरहिरण्मयैः
सुकृतैराचितं स्तम्भैः प्रदीप्तमिव च श्रिया
मेरुमन्दरसंकाशैरुल्लिखद्भिरिवाम्बरम्
कूटागारैः शुभाकारैः सर्वतः समलंकृतम्
ज्वलनार्कप्रतीकाशं सुकृतं विश्वकर्मणा
हेमसोपानसंयुक्तं चारुप्रवरवेदिकम्
जालवातायनैर्युक्तं काञ्चनैः स्थाटिकैरपि
इन्द्रनीलमहानीलमणिप्रवरवेदिकम्
विमानं पुष्पकं दिव्यमारुरोह महाकपिः
तत्रस्थः स तदा गन्धं पानभक्ष्यान्नसंभवम्
दिव्यं संमूर्छितं जिघ्रन्रूपवन्तमिवानिलम्
स गन्धस्तं महासत्त्वं बन्धुर्बन्धुमिवोत्तमम्
इत एहीत्युवाचेव तत्र यत्र स रावणः
ततस्तां प्रस्थितः शालां ददर्श महतीं शुभाम्
रावणस्य मनःकान्तां कान्तामिव वरस्त्रियम्
मणिसोपानविकृतां हेमजालविराजिताम्
स्फाटिकैरावृततलां दन्तान्तरितरूपिकाम्
मुक्ताभिश्च प्रवालैश्च रूप्यचामीकरैरपि
विभूषितां मणिस्तम्भैः सुबहुस्तम्भभूषिताम्
समैरृजुभिरत्युच्चैः समन्तात्सुविभूषितैः
स्तम्भैः पक्षैरिवात्युच्चैर्दिवं संप्रस्थितामिव
महत्या कुथयास्त्रीणं पृथिवीलक्षणाङ्कया
पृथिवीमिव विस्तीर्णां सराष्ट्रगृहमालिनीम्
नादितां मत्तविहगैर्दिव्यगन्धाधिवासिताम्
परार्ध्यास्तरणोपेतां रक्षोऽधिपनिषेविताम्
धूम्रामगरुधूपेन विमलां हंसपाण्डुराम्
चित्रां पुष्पोपहारेण कल्माषीमिव सुप्रभाम्
मनःसंह्लादजननीं वर्णस्यापि प्रसादिनीम्
तां शोकनाशिनीं दिव्यां श्रियः संजननीमिव
इन्द्रियाणीन्द्रियार्थैस्तु पञ्च पञ्चभिरुत्तमैः
तर्पयामास मातेव तदा रावणपालिता
स्वर्गोऽयं देवलोकोऽयमिन्द्रस्येयं पुरी भवेत्
सिद्धिर्वेयं परा हि स्यादित्यमन्यत मारुतिः
प्रध्यायत इवापश्यत्प्रदीपांस्तत्र काञ्चनान्
धूर्तानिव महाधूर्तैर्देवनेन पराजितान्
दीपानां च प्रकाशेन तेजसा रावणस्य च
अर्चिर्भिर्भूषणानां च प्रदीप्तेत्यभ्यमन्यत
ततोऽपश्यत्कुथासीनं नानावर्णाम्बरस्रजम्
सहस्रं वरनारीणां नानावेषविभूषितम्