Sundarakanda, Sarga 6, Verse 1
स वेश्मजालं बलवान्ददर्श; व्यासक्तवैदूर्यसुवर्णजालम्
यथा महत्प्रावृषि मेघजालं; विद्युत्पिनद्धं सविहंगजालम्
Containing 17 sacred Sanskrit shlokas with multi-author commentaries and translations.
स वेश्मजालं बलवान्ददर्श; व्यासक्तवैदूर्यसुवर्णजालम्
यथा महत्प्रावृषि मेघजालं; विद्युत्पिनद्धं सविहंगजालम्
निवेशनानां विविधाश्च शालाः; प्रधानशङ्खायुधचापशालाः
मनोहराश्चापि पुनर्विशाला; ददर्श वेश्माद्रिषु चन्द्रशालाः
गृहाणि नानावसुराजितानि; देवासुरैश्चापि सुपूजितानि
सर्वैश्च दोषैः परिवर्जितानि; कपिर्ददर्श स्वबलार्जितानि
तानि प्रयत्नाभिसमाहितानि; मयेन साक्षादिव निर्मितानि
महीतले सर्वगुणोत्तराणि; ददर्श लङ्काधिपतेर्गृहाणि
ततो ददर्शोच्छ्रितमेघरूपं; मनोहरं काञ्चनचारुरूपम्
रक्षोऽधिपस्यात्मबलानुरूपं; गृहोत्तमं ह्यप्रतिरूपरूपम्
महीतले स्वर्गमिव प्रकीर्णं; श्रिया ज्वलन्तं बहुरत्नकीर्णम्
नानातरूणां कुसुमावकीर्णं; गिरेरिवाग्रं रजसावकीर्णम्
नारीप्रवेकैरिव दीप्यमानं; तडिद्भिरम्भोदवदर्च्यमानम्
हंसप्रवेकैरिव वाह्यमानं; श्रिया युतं खे सुकृतां विमानम्
यथा नगाग्रं बहुधातुचित्रं; यथा नभश्च ग्रहचन्द्रचित्रम्
ददर्श युक्तीकृतमेघचित्रं; विमानरत्नं बहुरत्नचित्रम्
मही कृता पर्वतराजिपूर्णा; शैलाः कृता वृक्षवितानपूर्णाः
वृक्षाः कृताः पुष्पवितानपूर्णाः; पुष्पं कृतं केसरपत्रपूर्णम्
कृतानि वेश्मानि च पाण्डुराणि; तथा सुपुष्पा अपि पुष्करिण्यः
पुनश्च पद्मानि सकेसराणि; धन्यानि चित्राणि तथा वनानि
पुष्पाह्वयं नाम विराजमानं; रत्नप्रभाभिश्च विवर्धमानम्
वेश्मोत्तमानामपि चोच्चमानं; महाकपिस्तत्र महाविमानम्
कृताश्च वैदूर्यमया विहंगा; रूप्यप्रवालैश्च तथा विहंगाः
चित्राश्च नानावसुभिर्भुजंगा; जात्यानुरूपास्तुरगाः शुभाङ्गाः
प्रवालजाम्बूनदपुष्पपक्षाः; सलीलमावर्जितजिह्मपक्षाः
कामस्य साक्षादिव भान्ति पक्षाः; कृता विहंगाः सुमुखाः सुपक्षाः
नियुज्यमानाश्च गजाः सुहस्ताः; सकेसराश्चोत्पलपत्रहस्ताः
बभूव देवी च कृता सुहस्ता; लक्ष्मीस्तथा पद्मिनि पद्महस्ता
इतीव तद्गृहमभिगम्य शोभनं; सविस्मयो नगमिव चारुशोभनम्
पुनश्च तत्परमसुगन्धि सुन्दरं; हिमात्यये नगमिव चारुकन्दरम्
ततः स तां कपिरभिपत्य पूजितां; चरन्पुरीं दशमुखबाहुपालिताम्
अदृश्य तां जनकसुतां सुपूजितां; सुदुःखितां पतिगुणवेगनिर्जिताम्
ततस्तदा बहुविधभावितात्मनः; कृतात्मनो जनकसुतां सुवर्त्मनः
अपश्यतोऽभवदतिदुःखितं मनः; सुचक्षुषः प्रविचरतो महात्मनः