Sundarakanda, Sarga 4, Verse 1
ततः स मध्यं गतमंशुमन्तं; ज्योत्स्नावितानं महदुद्वमन्तम्
ददर्श धीमान्दिवि भानुमन्तं; गोष्ठे वृषं मत्तमिव भ्रमन्तम्
Containing 24 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततः स मध्यं गतमंशुमन्तं; ज्योत्स्नावितानं महदुद्वमन्तम्
ददर्श धीमान्दिवि भानुमन्तं; गोष्ठे वृषं मत्तमिव भ्रमन्तम्
लोकस्य पापानि विनाशयन्तं; महोदधिं चापि समेधयन्तम्
भूतानि सर्वाणि विराजयन्तं; ददर्श शीतांशुमथाभियान्तम्
या भाति लक्ष्मीर्भुवि मन्दरस्था; तथा प्रदोषेषु च सागरस्था
तथैव तोयेषु च पुष्करस्था; रराज सा चारुनिशाकरस्था
हंसो यथा राजतपञ्जुरस्थः; सिंहो यथा मन्दरकन्दरस्थः
वीरो यथा गर्वितकुञ्जरस्थ;श्चन्द्रोऽपि बभ्राज तथाम्बरस्थः
स्थितः ककुद्मानिव तीक्ष्णशृङ्गो; महाचलः श्वेत इवोच्चशृङ्गः
हस्तीव जाम्बूनदबद्धशृङ्गो; विभाति चन्द्रः परिपूर्णशृङ्गः
प्रकाशचन्द्रोदयनष्टदोषः; प्रवृद्धरक्षः पिशिताशदोषः
रामाभिरामेरितचित्तदोषः; स्वर्गप्रकाशो भगवान्प्रदोषः
तन्त्री स्वनाः कर्णसुखाः प्रवृत्ताः; स्वपन्ति नार्यः पतिभिः सुवृत्ताः
नक्तंचराश्चापि तथा प्रवृत्ता; विहर्तुमत्यद्भुतरौद्रवृत्ताः
मत्तप्रमत्तानि समाकुलानि; रथाश्वभद्रासनसंकुलानि
वीरश्रिया चापि समाकुलानि; ददर्श धीमान्स कपिः कुलानि
परस्परं चाधिकमाक्षिपन्ति; भुजांश्च पीनानधिविक्षिपन्ति
मत्तप्रलापानधिविक्षिपन्ति; मत्तानि चान्योन्यमधिक्षिपन्ति
रक्षांसि वक्षांसि च विक्षिपन्ति; गात्राणि कान्तासु च विक्षिपन्ति
ददर्श कान्ताश्च समालपन्ति; तथापरास्तत्र पुनः स्वपन्ति
महागजैश्चापि तथा नदद्भिः; सूपूजितैश्चापि तथा सुसद्भिः
रराज वीरैश्च विनिःश्वसद्भि;र्ह्रदो भुजङ्गैरिव निःश्वसद्भिः
बुद्धिप्रधानान्रुचिराभिधाना;न्संश्रद्दधानाञ्जगतः प्रधानान्
नानाविधानान्रुचिराभिधाना;न्ददर्श तस्यां पुरि यातुधानान्
ननन्द दृष्ट्वा स च तान्सुरूपा;न्नानागुणानात्मगुणानुरूपान्
विद्योतमानान्स च तान्सुरूपा;न्ददर्श कांश्चिच्च पुनर्विरूपान्
ततो वरार्हाः सुविशुद्धभावा;स्तेषां स्त्रियस्तत्र महानुभावाः
प्रियेषु पानेषु च सक्तभावा; ददर्श तारा इव सुप्रभावाः
श्रिया ज्वलन्तीस्त्रपयोपगूढा; निशीथकाले रमणोपगूढाः
ददर्श काश्चित्प्रमदोपगूढा; यथा विहंगाः कुसुमोपगूडाः
अन्याः पुनर्हर्म्यतलोपविष्टा;स्तत्र प्रियाङ्केषु सुखोपविष्टाः
भर्तुः प्रिया धर्मपरा निविष्टा; ददर्श धीमान्मनदाभिविष्टाः
अप्रावृताः काञ्चनराजिवर्णाः; काश्चित्परार्ध्यास्तपनीयवर्णाः
पुनश्च काश्चिच्छशलक्ष्मवर्णाः; कान्तप्रहीणा रुचिराङ्गवर्णाः
ततः प्रियान्प्राप्य मनोऽभिरामा;न्सुप्रीतियुक्ताः प्रसमीक्ष्य रामाः
गृहेषु हृष्टाः परमाभिरामा; हरिप्रवीरः स ददर्श रामाः
चन्द्रप्रकाशाश्च हि वक्त्रमाला; वक्राक्षिपक्ष्माश्च सुनेत्रमालाः
विभूषणानां च ददर्श मालाः; शतह्रदानामिव चारुमालाः
न त्वेव सीतां परमाभिजातां; पथि स्थिते राजकुले प्रजाताम्
लतां प्रफुल्लामिव साधुजातां; ददर्श तन्वीं मनसाभिजाताम्
सनातने वर्त्मनि संनिविष्टां; रामेक्षणीं तां मदनाभिविष्टाम्
भर्तुर्मनः श्रीमदनुप्रविष्टां; स्त्रीभ्यो वराभ्यश्च सदा विशिष्टाम्
उष्णार्दितां सानुसृतास्रकण्ठीं; पुरा वरार्होत्तमनिष्ककण्ठीम्
सुजातपक्ष्मामभिरक्तकण्ठीं; वने प्रवृत्तामिव नीलकण्ठीम्
अव्यक्तलेखामिव चन्द्रलेखां; पांसुप्रदिग्धामिव हेमलेखाम्
क्षतप्ररूढामिव बाणलेखां; वायुप्रभिन्नामिव मेघलेखाम्
सीतामपश्यन्मनुजेश्वरस्य; रामस्य पत्नीं वदतां वरस्य
बभूव दुःखाभिहतश्चिरस्य; प्लवंगमो मन्द इवाचिरस्य