Sundarakanda, Sarga 3, Verse 1
स लम्बशिखरे लम्बे लम्बतोयदसंनिभे
सत्त्वमास्थाय मेधावी हनुमान्मारुतात्मजः
Containing 37 sacred Sanskrit shlokas with multi-author commentaries and translations.
स लम्बशिखरे लम्बे लम्बतोयदसंनिभे
सत्त्वमास्थाय मेधावी हनुमान्मारुतात्मजः
निशि लङ्कां महासत्त्वो विवेश कपिकुञ्जरः
रम्यकाननतोयाढ्यां पुरीं रावणपालिताम्
शारदाम्बुधरप्रख्यैर्भवनैरुपशोभिताम्
सागरोपमनिर्घोषां सागरानिलसेविताम्
सुपुष्टबलसंगुप्तां यथैव विटपावतीम्
चारुतोरणनिर्यूहां पाण्डुरद्वारतोरणाम्
भुजगाचरितां गुप्तां शुभां भोगवतीमिव
तां सविद्युद्घनाकीर्णां ज्योतिर्मार्गनिषेविताम्
चण्डमारुतनिर्ह्रादां यथेन्द्रस्यामरावतीम्
शातकुम्भेन महता प्राकारेणाभिसंवृताम्
किङ्किणीजालघोषाभिः पताकाभिरलंकृताम्
आसाद्य सहसा हृष्टः प्राकारमभिपेदिवान्
विस्मयाविष्टहृदयः पुरीमालोक्य सर्वतः
जाम्बूनदमयैर्द्वारैर्वैदूर्यकृतवेदिकैः
मणिस्फटिक मुक्ताभिर्मणिकुट्टिमभूषितैः
तप्तहाटकनिर्यूहै राजतामलपाण्डुरैः
वैदूर्यतलसोपानैः स्फाटिकान्तरपांसुभिः
चारुसंजवनोपेतैः खमिवोत्पतितैः शुभैः
क्रौञ्चबर्हिणसंघुष्टे राजहंसनिषेवितैः
तूर्याभरणनिर्घोषैः सर्वतः प्रतिनादिताम्
वस्वोकसाराप्रतिमां समीक्ष्य नगरीं ततः
खमिवोत्पतितां लङ्कां जहर्ष हनुमान्कपिः
तां समीक्ष्य पुरीं लङ्कां राक्षसाधिपतेः शुभाम्
अनुत्तमामृद्धियुतां चिन्तयामास वीर्यवान्
नेयमन्येन नगरी शक्या धर्षयितुं बलात्
रक्षिता रावणबलैरुद्यतायुधधारिभिः
कुमुदाङ्गदयोर्वापि सुषेणस्य महाकपेः
प्रसिद्धेयं भवेद्भूमिर्मैन्दद्विविदयोरपि
विवस्वतस्तनूजस्य हरेश्च कुशपर्वणः
ऋक्षस्य केतुमालस्य मम चैव गतिर्भवेत्
समीक्ष्य तु महाबाहो राघवस्य पराक्रमम्
लक्ष्मणस्य च विक्रान्तमभवत्प्रीतिमान्कपिः
तां रत्नवसनोपेतां कोष्ठागारावतंसकाम्
यन्त्रागारस्तनीमृद्धां प्रमदामिव भूषिताम्
तां नष्टतिमिरां दीपैर्भास्वरैश्च महागृहैः
नगरीं राक्षसेन्द्रस्य ददर्श स महाकपिः
प्रविष्टः सत्त्वसंपन्नो निशायां मारुतात्मजः
स महापथमास्थाय मुक्तापुष्पविराजितम्
हसितोद्घुष्टनिनदैस्तूर्यघोष पुरः सरैः
वज्राङ्कुशनिकाशैश्च वज्रजालविभूषितैः
गृहमेधैः पुरी रम्या बभासे द्यौरिवाम्बुदैः
प्रजज्वाल तदा लङ्का रक्षोगणगृहैः शुभैः
सिताभ्रसदृशैश्चित्रैः पद्मस्वस्तिकसंस्थितैः
वर्धमानगृहैश्चापि सर्वतः सुविभाषितैः
तां चित्रमाल्याभरणां कपिराजहितंकरः
राघवार्थं चरञ्श्रीमान्ददर्श च ननन्द च
शुश्राव मधुरं गीतं त्रिस्थानस्वरभूषितम्
स्त्रीणां मदसमृद्धानां दिवि चाप्सरसामिव
शुश्राव काञ्चीनिनादं नूपुराणां च निःस्वनम्
सोपाननिनदांश्चैव भवनेषु महात्मनम्
आस्फोटितनिनादांश्च क्ष्वेडितांश्च ततस्ततः
स्वाध्याय निरतांश्चैव यातुधानान्ददर्श सः
रावणस्तवसंयुक्तान्गर्जतो राक्षसानपि
राजमार्गं समावृत्य स्थितं रक्षोबलं महत्
ददर्श मध्यमे गुल्मे राक्षसस्य चरान्बहून्
दीक्षिताञ्जटिलान्मुण्डान्गोऽजिनाम्बरवाससः
दर्भमुष्टिप्रहरणानग्निकुण्डायुधांस्तथा
कूटमुद्गरपाणींश्च दण्डायुधधरानपि
एकाक्षानेककर्णांश्च चलल्लम्बपयोधरान्
करालान्भुग्नवक्त्रांश्च विकटान्वामनांस्तथा
धन्विनः खड्गिनश्चैव शतघ्नी मुसलायुधान्
परिघोत्तमहस्तांश्च विचित्रकवचोज्ज्वलान्