Sundarakanda, Sarga 2, Verse 1
स सागरमनाधृष्यमतिक्रम्य महाबलः
त्रिकूटशिखरे लङ्कां स्थितां स्वस्थो ददर्श ह
Containing 55 sacred Sanskrit shlokas with multi-author commentaries and translations.
स सागरमनाधृष्यमतिक्रम्य महाबलः
त्रिकूटशिखरे लङ्कां स्थितां स्वस्थो ददर्श ह
ततः पादपमुक्तेन पुष्पवर्षेण वीर्यवान्
अभिवृष्टः स्थितस्तत्र बभौ पुष्पमयो यथा
योजनानां शतं श्रीमांस्तीर्त्वाप्युत्तमविक्रमः
अनिश्वसन्कपिस्तत्र न ग्लानिमधिगच्छति
शतान्यहं योजनानां क्रमेयं सुबहून्यपि
किं पुनः सागरस्यान्तं संख्यातं शतयोजनम्
स तु वीर्यवतां श्रेष्ठः प्लवतामपि चोत्तमः
जगाम वेगवाँल्लङ्कां लङ्घयित्वा महोदधिम्
शाद्वलानि च नीलानि गन्धवन्ति वनानि च
गण्डवन्ति च मध्येन जगाम नगवन्ति च
शैलांश्च तरुसंछन्नान्वनराजीश्च पुष्पिताः
अभिचक्राम तेजस्वी हनुमान्प्लवगर्षभः
स तस्मिन्नचले तिष्ठन्वनान्युपवनानि च
स नगाग्रे च तां लङ्कां ददर्श पवनात्मजः
सरलान्कर्णिकारांश्च खर्जूरांश्च सुपुष्पितान्
प्रियालान्मुचुलिन्दांश्च कुटजान्केतकानपि
प्रियङ्गून्गन्धपूर्णांश्च नीपान्सप्तच्छदांस्तथा
असनान्कोविदारांश्च करवीरांश्च पुष्पितान्
पुष्पभारनिबद्धांश्च तथा मुकुलितानपि
पादपान्विहगाकीर्णान्पवनाधूतमस्तकान्
हंसकारण्डवाकीर्णा वापीः पद्मोत्पलायुताः
आक्रीडान्विविधान्रम्यान्विविधांश्च जलाशयान्
संततान्विविधैर्वृक्षैः सर्वर्तुफलपुष्पितैः
उद्यानानि च रम्याणि ददर्श कपिकुञ्जरः
समासाद्य च लक्ष्मीवाँल्लङ्कां रावणपालिताम्
परिखाभिः सपद्माभिः सोत्पलाभिरलंकृताम्
सीतापहरणार्थेन रावणेन सुरक्षिताम्
समन्ताद्विचरद्भिश्च राक्षसैरुग्रधन्विभिः
काञ्चनेनावृतां रम्यां प्राकारेण महापुरीम्
अट्टालकशताकीर्णां पताकाध्वजमालिनीम्
तोरणैः काञ्चनैर्दिव्यैर्लतापङ्क्तिविचित्रितैः
ददर्श हनुमाँल्लङ्कां दिवि देवपुरीमिव
गिरिमूर्ध्नि स्थितां लङ्कां पाण्डुरैर्भवनैः शुभैः
ददर्श स कपिः श्रीमान्पुरमाकाशगं यथा
पालितां राक्षसेन्द्रेण निर्मितां विश्वकर्मणा
प्लवमानामिवाकाशे ददर्श हनुमान्पुरीम्
संपूर्णां राक्षसैर्घोरैर्नागैर्भोगवतीमिव
अचिन्त्यां सुकृतां स्पष्टां कुबेराध्युषितां पुरा
दंष्ट्रिभिर्बहुभिः शूरैः शूलपट्टिशपाणिभिः
रक्षितां राक्षसैर्घोरैर्गुहामाशीविषैरपि
वप्रप्राकारजघनां विपुलाम्बुनवाम्बराम्
शतघ्नीशूलकेशान्तामट्टालकवतंसकाम्
द्वारमुत्तरमासाद्य चिन्तयामास वानरः
कैलासशिखरप्रख्यमालिखन्तमिवाम्बरम्
ध्रियमाणमिवाकाशमुच्छ्रितैर्भवनोत्तमैः
तस्याश्च महतीं गुप्तिं सागरं च निरीक्ष्य सः
रावणं च रिपुं घोरं चिन्तयामास वानरः
आगत्यापीह हरयो भविष्यन्ति निरर्थकाः
न हि युद्धेन वै लङ्का शक्या जेतुं सुरैरपि
इमां तु विषमां दुर्गां लङ्कां रावणपालिताम्
प्राप्यापि स महाबाहुः किं करिष्यति राघवः
अवकाशो न सान्त्वस्य राक्षसेष्वभिगम्यते
न दानस्य न भेदस्य नैव युद्धस्य दृश्यते
चतुर्णामेव हि गतिर्वानराणां महात्मनाम्
वालिपुत्रस्य नीलस्य मम राज्ञश्च धीमतः
यावज्जानामि वैदेहीं यदि जीवति वा न वा
तत्रैव चिन्तयिष्यामि दृष्ट्वा तां जनकात्मजाम्
ततः स चिन्तयामास मुहूर्तं कपिकुञ्जरः
गिरिशृङ्गे स्थितस्तस्मिन्रामस्याभ्युदये रतः