Sundarakanda, Sarga 1, Verse 1
ततो रावणनीतायाः सीतायाः शत्रुकर्शनः
इयेष पदमन्वेष्टुं चारणाचरिते पथि
Containing 190 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततो रावणनीतायाः सीतायाः शत्रुकर्शनः
इयेष पदमन्वेष्टुं चारणाचरिते पथि
अथ वैदूर्यवर्णेषु शाद्वलेषु महाबलः
धीरः सलिलकल्पेषु विचचार यथासुखम्
द्विजान्वित्रासयन्धीमानुरसा पादपान्हरन्
मृगांश्च सुबहून्निघ्नन्प्रवृद्ध इव केसरी
नीललोहितमाञ्जिष्ठपद्मवर्णैः सितासितैः
स्वभावविहितैश्चित्रैर्धातुभिः समलंकृतम्
कामरूपिभिराविष्टमभीक्ष्णं सपरिच्छदैः
यक्षकिंनरगन्धर्वैर्देवकल्पैश्च पन्नगैः
स तस्य गिरिवर्यस्य तले नागवरायुते
तिष्ठन्कपिवरस्तत्र ह्रदे नाग इवाबभौ
स सूर्याय महेन्द्राय पवनाय स्वयम्भुवे
भूतेभ्यश्चाञ्जलिं कृत्वा चकार गमने मतिम्
अञ्जलिं प्राङ्मुखः कुर्वन्पवनायात्मयोनये
ततो हि ववृधे गन्तुं दक्षिणो दक्षिणां दिशम्
प्लवंगप्रवरैर्दृष्टः प्लवने कृतनिश्चयः
ववृधे रामवृद्ध्यर्थं समुद्र इव पर्वसु
निष्प्रमाण शरीरः सँल्लिलङ्घयिषुरर्णवम्
बाहुभ्यां पीडयामास चरणाभ्यां च पर्वतम्
स चचालाचलाश्चारु मुहूर्तं कपिपीडितः
तरूणां पुष्पिताग्राणां सर्वं पुष्पमशातयत्
तेन पादपमुक्तेन पुष्पौघेण सुगन्धिना
सर्वतः संवृतः शैलो बभौ पुष्पमयो यथा
तेन चोत्तमवीर्येण पीड्यमानः स पर्वतः
सलिलं संप्रसुस्राव मदं मत्त इव द्विपः
पीड्यमानस्तु बलिना महेन्द्रस्तेन पर्वतः
रीतिर्निर्वर्तयामास काञ्चनाञ्जनराजतीः
मुमोच च शिलाः शैलो विशालाः समनःशिलाः
गिरिणा पीड्यमानेन पीड्यमानानि सर्वशः
गुहाविष्टानि भूतानि विनेदुर्विकृतैः स्वरैः
स महासत्त्वसंनादः शैलपीडानिमित्तजः
पृथिवीं पूरयामास दिशश्चोपवनानि च
शिरोभिः पृथुभिः सर्पा व्यक्तस्वस्तिकलक्षणैः
वमन्तः पावकं घोरं ददंशुर्दशनैः शिलाः
तास्तदा सविषैर्दष्टाः कुपितैस्तैर्महाशिलाः
जज्वलुः पावकोद्दीप्ता विभिदुश्च सहस्रधा
यानि चौषधजालानि तस्मिञ्जातानि पर्वते
विषघ्नान्यपि नागानां न शेकुः शमितुं विषम्
भिद्यतेऽयं गिरिर्भूतैरिति मत्वा तपस्विनः
त्रस्ता विद्याधरास्तस्मादुत्पेतुः स्त्रीगणैः सह
पानभूमिगतं हित्वा हैममासनभाजनम्
पात्राणि च महार्हाणि करकांश्च हिरण्मयान्
लेह्यानुच्चावचान्भक्ष्यान्मांसानि विविधानि च
आर्षभाणि च चर्माणि खड्गांश्च कनकत्सरून्
कृतकण्ठगुणाः क्षीबा रक्तमाल्यानुलेपनाः
रक्ताक्षाः पुष्कराक्षाश्च गगनं प्रतिपेदिरे
हारनूपुरकेयूर पारिहार्य धराः स्त्रियः
विस्मिताः सस्मितास्तस्थुराकाशे रमणैः सह
दर्शयन्तो महाविद्यां विद्याधरमहर्षयः
सहितास्तस्थुराकाशे वीक्षां चक्रुश्च पर्वतम्
शुश्रुवुश्च तदा शब्दमृषीणां भावितात्मनाम्
चारणानां च सिद्धानां स्थितानां विमलेऽम्बरे
एष पर्वतसंकाशो हनूमान्मारुतात्मजः
तितीर्षति महावेगं समुद्रं मकरालयम्
रामार्थं वानरार्थं च चिकीर्षन्कर्म दुष्करम्
समुद्रस्य परं पारं दुष्प्रापं प्राप्तुमिच्छति
दुधुवे च स रोमाणि चकम्पे चाचलोपमः
ननाद च महानादं सुमहानिव तोयदः
आनुपूर्व्याच्च वृत्तं च लाङ्गूलं रोमभिश्चितम्
उत्पतिष्यन्विचिक्षेप पक्षिराज इवोरगम्