Kishkindhakanda, Sarga 66, Verse 1
संस्तूयमानो हनुमान्व्यवर्धत महाबलः
समाविध्य च लाङ्गूलं हर्षाच्च बलमेयिवान्
Containing 44 sacred Sanskrit shlokas with multi-author commentaries and translations.
संस्तूयमानो हनुमान्व्यवर्धत महाबलः
समाविध्य च लाङ्गूलं हर्षाच्च बलमेयिवान्
तस्य संस्तूयमानस्य सर्वैर्वानरपुंगवैः
तेजसापूर्यमाणस्य रूपमासीदनुत्तमम्
यथा विजृम्भते सिंहो विवृद्धो गिरिगह्वरे
मारुतस्यौरसः पुत्रस्तथा संप्रति जृम्भते
अशोभत मुखं तस्य जृम्भमाणस्य धीमतः
अम्बरीषोपमं दीप्तं विधूम इव पावकः
हरीणामुत्थितो मध्यात्संप्रहृष्टतनूरुहः
अभिवाद्य हरीन्वृद्धान्हनुमानिदमब्रवीत्
अरुजन्पर्वताग्राणि हुताशनसखोऽनिलः
बलवानप्रमेयश्च वायुराकाशगोचरः
तस्याहं शीघ्रवेगस्य शीघ्रगस्य महात्मनः
मारुतस्यौरसः पुत्रः प्लवने नास्ति मे समः
उत्सहेयं हि विस्तीर्णमालिखन्तमिवाम्बरम्
मेरुं गिरिमसंगेन परिगन्तुं सहस्रशः
बाहुवेगप्रणुन्नेन सागरेणाहमुत्सहे
समाप्लावयितुं लोकं सपर्वतनदीह्रदम्
ममोरुजङ्घावेगेन भविष्यति समुत्थितः
संमूर्छितमहाग्राहः समुद्रो वरुणालयः
पन्नगाशनमाकाशे पतन्तं पक्षिसेवितम्
वैनतेयमहं शक्तः परिगन्तुं सहस्रशः
उदयात्प्रस्थितं वापि ज्वलन्तं रश्मिमालिनम्
अनस्तमितमादित्यमभिगन्तुं समुत्सहे
ततो भूमिमसंस्पृश्य पुनरागन्तुमुत्सहे
प्रवेगेनैव महता भीमेन प्लवगर्षभाः
उत्सहेयमतिक्रान्तुं सर्वानाकाशगोचरान्
सागरं क्षोभयिष्यामि दारयिष्यामि मेदिनीम्
पर्वतान्कम्पयिष्यामि प्लवमानः प्लवंगमाः
हरिष्ये चोरुवेगेन प्लवमानो महार्णवम्
लतानां वीरुधां पुष्पं पादपानां च सर्वशः
अनुयास्यति मामद्य प्लवमानं विहायसा
भविष्यति हि मे पन्थाः स्वातेः पन्था इवाम्बरे
चरन्तं घोरमाकाशमुत्पतिष्यन्तमेव च
द्रक्ष्यन्ति निपतन्तं च सर्वभूतानि वानराः
महामेरुप्रतीकाशं मां द्रक्ष्यध्वं प्लवंगमाः
दिवमावृत्य गच्छन्तं ग्रसमानमिवाम्बरम्
विधमिष्यामि जीमूतान्कम्पयिष्यामि पर्वतान्
सागरं क्षोभयिष्यामि प्लवमानः समाहितः
वैनतेयस्य वा शक्तिर्मम वा मारुतस्य वा
ऋते सुपर्णराजानं मारुतं वा महाबलम्
न हि भूतं प्रपश्यामि यो मां प्लुतमनुव्रजेत्
निमेषान्तरमात्रेण निरालम्भनमम्बरम्
सहसा निपतिष्यामि घनाद्विद्युदिवोत्थिता
भविष्यति हि मे रूपं प्लवमानस्य सागरम्
विष्णोः प्रक्रममाणस्य तदा त्रीन्विक्रमानिव
बुद्ध्या चाहं प्रपश्यामि मनश्चेष्टा च मे तथा
अहं द्रक्ष्यामि वैदेहीं प्रमोदध्वं प्लवंगमाः
मारुतस्य समो वेगे गरुडस्य समो जवे
अयुतं योजनानां तु गमिष्यामीति मे मतिः
वासवस्य सवज्रस्य ब्रह्मणो वा स्वयम्भुवः
विक्रम्य सहसा हस्तादमृतं तदिहानये
लङ्कां वापि समुत्क्षिप्य गच्छेयमिति मे मतिः
तमेवं वानरश्रेष्ठं गर्जन्तममितौजसं
उवाच परिसंहृष्टो जाम्बवान्हरिसत्तमः
वीर केसरिणः पुत्र वेगवन्मारुतात्मज
ज्ञातीनां विपुलं शोकस्त्वया तात प्रणाशितः
तव कल्याणरुचयः कपिमुख्याः समागताः
मङ्गलं कार्यसिद्ध्यर्थं करिष्यन्ति समाहिताः
ऋषीणां च प्रसादेन कपिवृद्धमतेन च
गुरूणां च प्रसादेन प्लवस्व त्वं महार्णवम्
स्थास्यामश्चैकपादेन यावदागमनं तव
त्वद्गतानि च सर्वेषां जीवितानि वनौकसाम्