Kishkindhakanda, Sarga 65, Verse 1
अनेकशतसाहस्रीं विषण्णां हरिवाहिनीम्
जाम्बवान्समुदीक्ष्यैवं हनुमन्तमथाब्रवीत्
Containing 36 sacred Sanskrit shlokas with multi-author commentaries and translations.
अनेकशतसाहस्रीं विषण्णां हरिवाहिनीम्
जाम्बवान्समुदीक्ष्यैवं हनुमन्तमथाब्रवीत्
वीर वानरलोकस्य सर्वशास्त्रविदां वर
तूष्णीमेकान्तमाश्रित्य हनुमन्किं न जल्पसि
हनुमन्हरिराजस्य सुग्रीवस्य समो ह्यसि
रामलक्ष्मणयोश्चापि तेजसा च बलेन च
अरिष्टनेमिनः पुत्रौ वैनतेयो महाबलः
गरुत्मानिव विख्यात उत्तमः सर्वपक्षिणाम्
बहुशो हि मया दृष्टः सागरे स महाबलः
भुजगानुद्धरन्पक्षी महावेगो महायशाः
पक्षयोर्यद्बलं तस्य तावद्भुजबलं तव
विक्रमश्चापि वेगश्च न ते तेनापहीयते
बलं बुद्धिश्च तेजश्च सत्त्वं च हरिसत्तम
विशिष्टं सर्वभूतेषु किमात्मानं न बुध्यसे
अप्सराप्सरसां श्रेष्ठा विख्याता पुञ्जिकस्थला
अज्ञनेति परिख्याता पत्नी केसरिणो हरेः
अभिशापादभूत्तात वानरी कामरूपिणी
दुहिता वानरेन्द्रस्य कुञ्जरस्य महात्मनः
कपित्वे चारुसर्वाङ्गी कदाचित्कामरूपिणी
मानुषं विग्रहं कृत्वा यौवनोत्तमशालिनी
अचरत्पर्वतस्याग्रे प्रावृडम्बुदसंनिभे
विचित्रमाल्याभरणा महार्हक्षौमवासिनी
तस्या वस्त्रं विशालाक्ष्याः पीतं रक्तदशं शुभम्
स्थितायाः पर्वतस्याग्रे मारुतोऽपहरच्छनैः
स ददर्श ततस्तस्या वृत्तावूरू सुसंहतौ
स्तनौ च पीनौ सहितौ सुजातं चारु चाननम्
तां विशालायतश्रोणीं तनुमध्यां यशस्विनीम्
दृष्ट्वैव शुभसर्वाग्नीं पवनः काममोहितः
स तां भुजाभ्यां पीनाभ्यां पर्यष्वजत मारुतः
मन्मथाविष्टसर्वाङ्गो गतात्मा तामनिन्दिताम्
सा तु तत्रैव संभ्रान्ता सुवृत्ता वाक्यमब्रवीत्
एकपत्नीव्रतमिदं को नाशयितुमिच्छति
अञ्जनाया वचः श्रुत्वा मारुतः प्रत्यभाषत
न त्वां हिंसामि सुश्रोणि मा भूत्ते सुभगे भयम्
मनसास्मि गतो यत्त्वां परिष्वज्य यशस्विनि
वीर्यवान्बुद्धिसंपन्नः पुत्रस्तव भविष्यति
अभ्युत्थितं ततः सूर्यं बालो दृष्ट्वा महावने
फलं चेति जिघृक्षुस्त्वमुत्प्लुत्याभ्यपतो दिवम्
शतानि त्रीणि गत्वाथ योजनानां महाकपे
तेजसा तस्य निर्धूतो न विषादं ततो गतः
तावदापततस्तूर्णमन्तरिक्षं महाकपे
क्षिप्तमिन्द्रेण ते वज्रं क्रोधाविष्टेन धीमता
ततः शैलाग्रशिखरे वामो हनुरभज्यत
ततो हि नामधेयं ते हनुमानिति कीर्त्यते
ततस्त्वां निहतं दृष्ट्वा वायुर्गन्धवहः स्वयम्
त्रैलोक्ये भृशसंक्रुद्धो न ववौ वै प्रभञ्जनः
संभ्रान्ताश्च सुराः सर्वे त्रैलोक्ये क्षुभिते सति
प्रसादयन्ति संक्रुद्धं मारुतं भुवनेश्वराः
प्रसादिते च पवने ब्रह्मा तुभ्यं वरं ददौ
अशस्त्रवध्यतां तात समरे सत्यविक्रम
वज्रस्य च निपातेन विरुजं त्वां समीक्ष्य च
सहस्रनेत्रः प्रीतात्मा ददौ ते वरमुत्तमम्
स्वच्छन्दतश्च मरणं ते भूयादिति वै प्रभो
स त्वं केसरिणः पुत्रः क्षेत्रजो भीमविक्रमः
मारुतस्यौरसः पुत्रस्तेजसा चापि तत्समः
त्वं हि वायुसुतो वत्स प्लवने चापि तत्समः
वयमद्य गतप्राणा भवानस्मासु साम्प्रतम्
दाक्ष्यविक्रमसंपन्नः पक्षिराज इवापरः
त्रिविक्रमे मया तात सशैलवनकानना
त्रिः सप्तकृत्वः पृथिवी परिक्रान्ता प्रदक्षिणम्