Kishkindhakanda, Sarga 63, Verse 1
आख्याता गृध्रराजेन समुत्पत्य प्लवंगमाः
संगताः प्रीतिसंयुक्ता विनेदुः सिंहविक्रमाः
Containing 24 sacred Sanskrit shlokas with multi-author commentaries and translations.
आख्याता गृध्रराजेन समुत्पत्य प्लवंगमाः
संगताः प्रीतिसंयुक्ता विनेदुः सिंहविक्रमाः
संपातेर्वचनं श्रुत्वा हरयो रावणक्षयम्
हृष्टाः सागरमाजग्मुः सीतादर्शनकाङ्क्षिणः
अभिक्रम्य तु तं देशं ददृशुर्भीमविक्रमाः
कृत्स्नं लोकस्य महतः प्रतिबिम्बमिव स्थितम्
दक्षिणस्य समुद्रस्य समासाद्योत्तरां दिशम्
संनिवेशं ततश्चक्रुः सहिता वानरोत्तमाः
सत्त्वैर्महद्भिर्विकृतैः क्रीडद्भिर्विविधैर्जले
व्यात्तास्यैः सुमहाकायैरूर्मिभिश्च समाकुलम्
प्रसुप्तमिव चान्यत्र क्रीडन्तमिव चान्यतः
क्वचित्पर्वतमात्रैश्च जलराशिभिरावृतम्
संकुलं दानवेन्द्रैश्च पातालतलवासिभिः
रोमहर्षकरं दृष्ट्वा विषेदुः कपिकुञ्जराः
आकाशमिव दुष्पारं सागरं प्रेक्ष्य वानराः
विषेदुः सहसा सर्वे कथं कार्यमिति ब्रुवन्
विषण्णां वाहिनीं दृष्ट्वा सागरस्य निरीक्षणात्
आश्वासयामास हरीन्भयार्तान्हरिसत्तमः
न निषादेन नः कार्यं विषादो दोषवत्तरः
विषादो हन्ति पुरुषं बालं क्रुद्ध इवोरगः
विषादोऽयं प्रसहते विक्रमे पर्युपस्थिते
तेजसा तस्य हीनस्य पुरुषार्थो न सिध्यति
तस्यां रात्र्यां व्यतीतायामङ्गदो वानरैः सह
हरिवृद्धैः समागम्य पुनर्मन्त्रममन्त्रयत्
सा वानराणां ध्वजिनी परिवार्याङ्गदं बभौ
वासवं परिवार्येव मरुतां वाहिनी स्थिता
कोऽन्यस्तां वानरीं सेनां शक्तः स्तम्भयितुं भवेत्
अन्यत्र वालितनयादन्यत्र च हनूमतः
ततस्तान्हरिवृद्धांश्च तच्च सैन्यमरिंदमः
अनुमान्याङ्गदः श्रीमान्वाक्यमर्थवदब्रवीत्
क इदानीं महातेजा लङ्घयिष्यति सागरम्
कः करिष्यति सुग्रीवं सत्यसंधमरिंदमम्
को वीरो योजनशतं लङ्घयेत प्लवंगमाः
इमांश्च यूथपान्सर्वान्मोचयेत्को महाभयात्
कस्य प्रसादाद्दारांश्च पुत्रांश्चैव गृहाणि च
इतो निवृत्ताः पश्येम सिद्धार्थाः सुखिनो वयम्
कस्य प्रसादाद्रामं च लक्ष्मणं च महाबलम्
अभिगच्छेम संहृष्टाः सुग्रीवं च महाबलम्
यदि कश्चित्समर्थो वः सागरप्लवने हरिः
स ददात्विह नः शीघ्रं पुण्यामभयदक्षिणाम्
अङ्गदस्य वचः श्रुत्वा न कश्चित्किंचिदब्रवीत्
स्तिमितेवाभवत्सर्वा सा तत्र हरिवाहिनी
पुनरेवाङ्गदः प्राह तान्हरीन्हरिसत्तमः
सर्वे बलवतां श्रेष्ठा भवन्तो दृढविक्रमाः
व्यपदेश्य कुले जाताः पूजिताश्चाप्यभीक्ष्णशः
न हि वो गमने संगः कदाचिदपि कस्यचित्
ब्रुवध्वं यस्य या शक्तिर्गमने प्लवगर्षभाः