Kishkindhakanda, Sarga 62, Verse 1
एतैरन्यैश्च बहुभिर्वाक्यैर्वाक्यविशारदः
मां प्रशस्याभ्यनुज्ञाप्य प्रविष्टः स स्वमाश्रमम्
Containing 15 sacred Sanskrit shlokas with multi-author commentaries and translations.
एतैरन्यैश्च बहुभिर्वाक्यैर्वाक्यविशारदः
मां प्रशस्याभ्यनुज्ञाप्य प्रविष्टः स स्वमाश्रमम्
कन्दरात्तु विसर्पित्वा पर्वतस्य शनैः शनैः
अहं विन्ध्यं समारुह्य भवतः प्रतिपालये
अद्य त्वेतस्य कालस्य साग्रं वर्षशतं गतम्
देशकालप्रतीक्षोऽस्मि हृदि कृत्वा मुनेर्वचः
महाप्रस्थानमासाद्य स्वर्गते तु निशाकरे
मां निर्दहति संतापो वितर्कैर्बहुभिर्वृतम्
उत्थितां मरणे बुद्धिं मुनि वाक्यैर्निवर्तये
बुद्धिर्या तेन मे दत्ता प्राणसंरक्षणाय तु
सा मेऽपनयते दुःखं दीप्तेवाग्निशिखा तमः
बुध्यता च मया वीर्यं रावणस्य दुरात्मनः
पुत्रः संतर्जितो वाग्भिर्न त्राता मैथिली कथम्
तस्या विलपितं श्रुत्वा तौ च सीता विनाकृतौ
न मे दशरथस्नेहात्पुत्रेणोत्पादितं प्रियम्
तस्य त्वेवं ब्रुवाणस्य संपातेर्वानरैः सह
उत्पेततुस्तदा पक्षौ समक्षं वनचारिणाम्
स दृष्ट्वा स्वां तनुं पक्षैरुद्गतैररुणच्छदैः
प्रहर्षमतुलं लेभे वानरांश्चेदमब्रवीत्
निशाकरस्य महर्षेः प्रभावादमितात्मनः
आदित्यरश्मिनिर्दग्धौ पक्षौ मे पुनरुत्थितौ
यौवने वर्तमानस्य ममासीद्यः पराक्रमः
तमेवाद्यावगच्छामि बलं पौरुषमेव च
सर्वथा क्रियतां यत्नः सीतामधिगमिष्यथ
पक्षलाभो ममायं वः सिद्धिप्रत्यय कारकः
इत्युक्त्वा तान्हरीन्सर्वान्संपातिः पततां वरः
उत्पपात गिरेः शृङ्गाज्जिज्ञासुः खगमो गतिम्
तस्य तद्वचनं श्रुत्वा प्रीतिसंहृष्टमानसाः
बभूवुर्हरिशार्दूला विक्रमाभ्युदयोन्मुखाः
अथ पवनसमानविक्रमाः; प्लवगवराः प्रतिलब्ध पौरुषाः
अभिजिदभिमुखां दिशं ययु;र्जनकसुता परिमार्गणोन्मुखाः