Kishkindhakanda, Sarga 60, Verse 1
ततस्तद्दारुणं कर्म दुष्करं साहसात्कृतम्
आचचक्षे मुनेः सर्वं सूर्यानुगमनं तथा
Containing 16 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततस्तद्दारुणं कर्म दुष्करं साहसात्कृतम्
आचचक्षे मुनेः सर्वं सूर्यानुगमनं तथा
भगवन्व्रणयुक्तत्वाल्लज्जया चाकुलेन्द्रियः
परिश्रान्तो न शक्नोमि वचनं परिभाषितुम्
अहं चैव जटायुश्च संघर्षाद्दर्पमोहितौ
आकाशं पतितौ वीरौ जिघासन्तौ पराक्रमम्
कैलासशिखरे बद्ध्वा मुनीनामग्रतः पणम्
रविः स्यादनुयातव्यो यावदस्तं महागिरिम्
अथावां युगपत्प्राप्तावपश्याव महीतले
रथचक्रप्रमाणानि नगराणि पृथक्पृथक्
क्वचिद्वादित्रघोषांश्च ब्रह्मघोषांश्च शुश्रुव
गायन्तीश्चाङ्गना बह्वीः पश्यावो रक्तवाससः
तूर्णमुत्पत्य चाकाशमादित्यपथमास्थितौ
आवामालोकयावस्तद्वनं शाद्वलसंस्थितम्
उपलैरिव संछन्ना दृश्यते भूः शिलोच्चयैः
आपगाभिश्च संवीता सूत्रैरिव वसुंधरा
हिमवांश्चैव विन्ध्यश्च मेरुश्च सुमहान्नगः
भूतले संप्रकाशन्ते नागा इव जलाशये
तीव्रस्वेदश्च खेदश्च भयं चासीत्तदावयोः
समाविशत मोहश्च मोहान्मूर्छा च दारुणा
न दिग्विज्ञायते याम्या नागेन्या न च वारुणी
युगान्ते नियतो लोको हतो दग्ध इवाग्निना
यत्नेन महता भूयो रविः समवलोकितः
तुल्यः पृथ्वीप्रमाणेन भास्करः प्रतिभाति नौ
जटायुर्मामनापृच्छ्य निपपात महीं ततः
तं दृष्ट्वा तूर्णमाकाशादात्मानं मुक्तवानहम्
पक्षिभ्यां च मया गुप्तो जटायुर्न प्रदह्यत
प्रमादात्तत्र निर्दग्धः पतन्वायुपथादहम्
आशङ्के तं निपतितं जनस्थाने जटायुषम्
अहं तु पतितो विन्ध्ये दग्धपक्षो जडीकृतः
राज्येन हीनो भ्रात्रा च पक्षाभ्यां विक्रमेण च
सर्वथा मर्तुमेवेच्छन्पतिष्ये शिखराद्गिरेः