Kishkindhakanda, Sarga 59, Verse 1
ततः कृतोदकं स्नातं तं गृध्रं हरियूथपाः
उपविष्टा गिरौ दुर्गे परिवार्य समन्ततः
Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततः कृतोदकं स्नातं तं गृध्रं हरियूथपाः
उपविष्टा गिरौ दुर्गे परिवार्य समन्ततः
तमङ्गदमुपासीनं तैः सर्वैर्हरिभिर्वृतम्
जनितप्रत्ययो हर्षात्संपातिः पुनरब्रवीत्
कृत्वा निःशब्दमेकाग्राः शृण्वन्तु हरयो मम
तत्त्वं संकीर्तयिष्यामि यथा जानामि मैथिलीम्
अस्य विन्ध्यस्य शिखरे पतितोऽस्मि पुरा वने
सूर्यातपपरीताङ्गो निर्दग्धः सूर्यरश्मिभिः
लब्धसंज्ञस्तु षड्रात्राद्विवशो विह्वलन्निव
वीक्षमाणो दिशः सर्वा नाभिजानामि किंचन
ततस्तु सागराञ्शैलान्नदीः सर्वाः सरांसि च
वनान्यटविदेशांश्च समीक्ष्य मतिरागमत्
हृष्टपक्षिगणाकीर्णः कन्दरान्तरकूटवान्
दक्षिणस्योदधेस्तीरे विन्ध्योऽयमिति निश्चितः
आसीच्चात्राश्रमं पुण्यं सुरैरपि सुपूजितम्
ऋषिर्निशाकरो नाम यस्मिन्नुग्रतपाभवत्
अष्टौ वर्षसहस्राणि तेनास्मिन्नृषिणा विना
वसतो मम धर्मज्ञाः स्वर्गते तु निशाकरे
अवतीर्य च विन्ध्याग्रात्कृच्छ्रेण विषमाच्छनैः
तीक्ष्णदर्भां वसुमतीं दुःखेन पुनरागतः
तमृषिं द्रष्टु कामोऽस्मि दुःखेनाभ्यागतो भृशम्
जटायुषा मया चैव बहुशोऽभिगतो हि सः
तस्याश्रमपदाभ्याशे ववुर्वाताः सुगन्धिनः
वृक्षो नापुष्पितः कश्चिदफलो वा न दृश्यते
उपेत्य चाश्रमं पुण्यं वृक्षमूलमुपाश्रितः
द्रष्टुकामः प्रतीक्षे च भगवन्तं निशाकरम्
अथापश्यमदूरस्थमृषिं ज्वलिततेजसं
कृताभिषेकं दुर्धर्षमुपावृत्तमुदङ्मुखम्
तमृक्षाः सृमरा व्याघ्राः सिंहा नागाः सरीसृपाः
परिवार्योपगच्छन्ति दातारं प्राणिनो यथा
ततः प्राप्तमृषिं ज्ञात्वा तानि सत्त्वानि वै ययुः
प्रविष्टे राजनि यथा सर्वं सामात्यकं बलम्
ऋषिस्तु दृष्ट्वा मां तुष्टः प्रविष्टश्चाश्रमं पुनः
मुहूर्तमात्रान्निष्क्रम्य ततः कार्यमपृच्छत
सौम्य वैकल्यतां दृष्ट्वा रोंणां ते नावगम्यते
अग्निदग्धाविमौ पक्षौ त्वक्चैव व्रणिता तव
द्वौ गृध्रौ दृष्टपूर्वौ मे मातरिश्वसमौ जवे
गृध्राणां चैव राजानौ भ्रातरौ कामरूपिणौ
ज्येष्ठस्त्वं तु च संपातिर्जटायुरनुजस्तव
मानुषं रूपमास्थाय गृह्णीतां चरणौ मम
किं ते व्याधिसमुत्थानं पक्षयोः पतनं कथम्
दण्डो वायं धृतः केन सर्वमाख्याहि पृच्छतः