Kishkindhakanda, Sarga 57, Verse 1
इत्युक्तः करुणं वाक्यं वानरैस्त्यक्तजीवितैः
सबाष्पो वानरान्गृध्रः प्रत्युवाच महास्वनः
Containing 34 sacred Sanskrit shlokas with multi-author commentaries and translations.
इत्युक्तः करुणं वाक्यं वानरैस्त्यक्तजीवितैः
सबाष्पो वानरान्गृध्रः प्रत्युवाच महास्वनः
यवीयान्मम स भ्राता जटायुर्नाम वानराः
यमाख्यात हतं युद्धे रावणेन बलीयसा
वृद्धभावादपक्षत्वाच्छृण्वंस्तदपि मर्षये
न हि मे शक्तिरद्यास्ति भ्रातुर्वैरविमोक्षणे
पुरा वृत्रवधे वृत्ते स चाहं च जयैषिणौ
आदित्यमुपयातौ स्वो ज्वलन्तं रश्मिमालिनम्
आवृत्याकाशमार्गेण जवेन स्म गतौ भृशम्
मध्यं प्राप्ते च सूर्ये च जटायुरवसीदति
तमहं भ्रातरं दृष्ट्वा सूर्यरश्मिभिरर्दितम्
पक्षाभ्यं छादयामास स्नेहात्परमविह्वलम्
निर्दग्धपक्षः पतितो विन्ध्येऽहं वानरोत्तमाः
अहमस्मिन्वसन्भ्रातुः प्रवृत्तिं नोपलक्षये
जटायुषस्त्वेवमुक्तो भ्रात्रा संपातिना तदा
युवराजो महाप्राज्ञः प्रत्युवाचाङ्गदस्तदा
जटायुषो यदि भ्राता श्रुतं ते गदितं मया
आख्याहि यदि जानासि निलयं तस्य रक्षसः
अदीर्घदर्शिनं तं वा रावणं राक्षसाधिपम्
अन्तिके यदि वा दूरे यदि जानासि शंस नः
ततोऽब्रवीन्महातेजा ज्येष्ठो भ्राता जटायुषः
आत्मानुरूपं वचनं वानरान्संप्रहर्षयन्
निर्दग्धपक्षो गृध्रोऽहं गतवीर्यः प्लवंगमाः
वाङ्मात्रेण तु रामस्य करिष्ये साह्यमुत्तमम्
जानामि वारुणाल्लोकान्विष्णोस्त्रैविक्रमानपि
देवासुरविमर्दांश्च अमृतस्य च मन्थनम्
रामस्य यदिदं कार्यं कर्तव्यं प्रथमं मया
जरया च हृतं तेजः प्राणाश्च शिथिला मम
तरुणी रूपसंपन्ना सर्वाभरणभूषिता
ह्रियमाणा मया दृष्टा रावणेन दुरात्मना
क्रोशन्ती राम रामेति लक्ष्मणेति च भामिनी
भूषणान्यपविध्यन्ती गात्राणि च विधुन्वती
सूर्यप्रभेव शैलाग्रे तस्याः कौशेयमुत्तमम्
असिते राक्षसे भाति यथा वा तडिदम्बुदे
तां तु सीतामहं मन्ये रामस्य परिकीर्तनात्
श्रूयतां मे कथयतो निलयं तस्य रक्षसः
पुत्रो विश्रवसः साक्षाद्भ्राता वैश्रवणस्य च
अध्यास्ते नगरीं लङ्कां रावणो नाम राकसः
इतो द्वीपे समुद्रस्य संपूर्णे शतयोजने
तस्मिँल्लङ्का पुरी रम्या निर्मिता विश्वकर्मणा
तस्यां वसति वैदेही दीना कौशेयवासिनी
रावणान्तःपुरे रुद्धा राक्षसीभिः सुरक्षिता
जनकस्यात्मजां राज्ञस्तस्यां द्रक्ष्यथ मैथिलीम्
लङ्कायामथ गुप्तायां सागरेण समन्ततः
संप्राप्य सागरस्यान्तं संपूर्णं शतयोजनम्
आसाद्य दक्षिणं कूलं ततो द्रक्ष्यथ रावणम्
तत्रैव त्वरिताः क्षिप्रं विक्रमध्वं प्लवंगमाः
ज्ञानेन खलु पश्यामि दृष्ट्वा प्रत्यागमिष्यथ
आद्यः पन्थाः कुलिङ्गानां ये चान्ये धान्यजीविनः
द्वितीयो बलिभोजानां ये च वृक्षफलाशिनः
भासास्तृतीयं गच्छन्ति क्रौञ्चाश्च कुररैः सह
श्येनाश्चतुर्थं गच्छन्ति गृध्रा गच्छन्ति पञ्चमम्
बलवीर्योपपन्नानां रूपयौवनशालिनाम्
षष्ठस्तु पन्था हंसानां वैनतेयगतिः परा
वैनतेयाच्च नो जन्म सर्वेषां वानरर्षभाः
गर्हितं तु कृतं कर्म येन स्म पिशिताशनाः
इहस्थोऽहं प्रपश्यामि रावणं जानकीं तथा
अस्माकमपि सौवर्णं दिव्यं चक्षुर्बलं तथा
तस्मादाहारवीर्येण निसर्गेण च वानराः
आयोजनशतात्साग्राद्वयं पश्याम नित्यशः
अस्माकं विहिता वृत्तिर्निसार्गेण च दूरतः
विहिता पादमूले तु वृत्तिश्चरणयोधिनाम्