Kishkindhakanda, Sarga 56, Verse 1
शोकाद्भ्रष्टस्वरमपि श्रुत्वा ते हरियूथपाः
श्रद्दधुर्नैव तद्वाक्यं कर्मणा तस्य शङ्किताः
Containing 19 sacred Sanskrit shlokas with multi-author commentaries and translations.
शोकाद्भ्रष्टस्वरमपि श्रुत्वा ते हरियूथपाः
श्रद्दधुर्नैव तद्वाक्यं कर्मणा तस्य शङ्किताः
ते प्रायमुपविष्टास्तु दृष्ट्वा गृध्रं प्लवंगमाः
चक्रुर्बुद्धिं तदा रौद्रां सर्वान्नो भक्षयिष्यति
सर्वथा प्रायमासीनान्यदि नो भक्षयिष्यति
कृतकृत्या भविष्यामः क्षिप्रं सिद्धिमितो गताः
एतां बुद्धिं ततश्चक्रुः सर्वे ते वानरर्षभाः
अवतार्य गिरेः शृङ्गाद्गृध्रमाहाङ्गदस्तदा
बभूवुर्क्षरजो नाम वानरेन्द्रः प्रतापवान्
ममार्यः पार्थिवः पक्षिन्धार्मिकौ तस्य चात्मजौ
सुग्रीवश्चैव वली च पुत्रावोघबलावुभौ
लोके विश्रुतकर्माभूद्राजा वाली पिता मम
राजा कृत्स्नस्य जगत इक्ष्वाकूणां महारथः
रामो दाशरथिः श्रीमान्प्रविष्टो दण्डकावनम्
लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया
पितुर्निदेशनिरतो धर्म्यं पन्थानमाश्रितः
तस्य भार्या जनस्थानाद्रावणेन हृता बलात्
रामस्य च पितुर्मित्रं जटायुर्नाम गृध्रराट्
ददर्श सीतां वैदेहीं ह्रियमाणां विहायसा
रावणं विरथं कृत्वा स्थापयित्वा च मैथिलीम्
परिश्रान्तश्च वृद्धश्च रावणेन हतो रणे
एवं गृध्रो हतस्तेन रावणेन बहीयसा
संस्कृतश्चापि रामेण गतश्च गतिमुत्तमाम्
ततो मम पितृव्येण सुग्रीवेण महात्मना
चकार राघवः सख्यं सोऽवधीत्पितरं मम
माम पित्रा विरुद्धो हि सुग्रीवः सचिवैः सह
निहत्य वालिनं रामस्ततस्तमभिषेचयत्
स राज्ये स्थापितस्तेन सुग्रीवो वानरेश्वरः
राजा वानरमुख्यानां येन प्रस्थापिता वयम्
एवं रामप्रयुक्तास्तु मार्गमाणास्ततस्ततः
वैदेहीं नाधिगच्छामो रात्रौ सूर्यप्रभामिव
ते वयं दण्दकारण्यं विचित्य सुसमाहिताः
अज्ञानात्तु प्रविष्टाः स्म धरण्या विवृतं बिलम्
मयस्य माया विहितं तद्बिलं च विचिन्वताम्
व्यतीतस्तत्र नो मासो यो राज्ञा सामयः कृतः
ते वयं कपिराजस्य सर्वे वचनकारिणः
कृतां संस्थामतिक्रान्ता भयात्प्रायमुपास्महे
क्रुद्धे तस्मिंस्तु काकुत्स्थे सुग्रीवे च सलक्ष्मणे
गतानामपि सर्वेषां तत्र नो नास्ति जीवितम्