Kishkindhakanda, Sarga 55, Verse 1
उपविष्टास्तु ते सर्वे यस्मिन्प्रायं गिरिस्थले
हरयो गृध्रराजश्च तं देशमुपचक्रमे
Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.
उपविष्टास्तु ते सर्वे यस्मिन्प्रायं गिरिस्थले
हरयो गृध्रराजश्च तं देशमुपचक्रमे
साम्पातिर्नाम नाम्ना तु चिरजीवी विहंगमः
भ्राता जटायुषः श्रीमान्प्रख्यातबलपौरुषः
कन्दरादभिनिष्क्रम्य स विन्ध्यस्य महागिरेः
उपविष्टान्हरीन्दृष्ट्वा हृष्टात्मा गिरमब्रवीत्
विधिः किल नरं लोके विधानेनानुवर्तते
यथायं विहितो भक्ष्यश्चिरान्मह्यमुपागतः
परम्पराणां भक्षिष्ये वानराणां मृतं मृतम्
उवाचैवं वचः पक्षी तान्निरीक्ष्य प्लवंगमान्
तस्य तद्वचनं श्रुत्वा भक्षलुब्धस्य पक्षिणः
अङ्गदः परमायस्तो हनूमन्तमथाब्रवीत्
पश्य सीतापदेशेन साक्षाद्वैवस्वतो यमः
इमं देशमनुप्राप्तो वानराणां विपत्तये
रामस्य न कृतं कार्यं राज्ञो न च वचः कृतम्
हरीणामियमज्ञाता विपत्तिः सहसागता
वैदेह्याः प्रियकामेन कृतं कर्म जटायुषा
गृध्रराजेन यत्तत्र श्रुतं वस्तदशेषतः
तथा सर्वाणि भूतानि तिर्यग्योनिगतान्यपि
प्रियं कुर्वन्ति रामस्य त्यक्त्वा प्राणान्यथा वयम्
राघवार्थे परिश्रान्ता वयं संत्यक्तजीविताः
कान्ताराणि प्रपन्नाः स्म न च पश्याम मैथिलीम्
स सुखी गृध्रराजस्तु रावणेन हतो रणे
मुक्तश्च सुग्रीवभयाद्गतश्च परमां गतिम्
जटायुषो विनाशेन राज्ञो दशरथस्य च
हरणेन च वैदेह्याः संशयं हरयो गताः
रामलक्ष्मणयोर्वासामरण्ये सह सीतया
राघवस्य च बाणेन वालिनश्च तथा वधः
रामकोपादशेषाणां राक्षसानां तथा वधः
कैकेय्या वरदानेन इदं हि विकृतं कृतम्
तत्तु श्रुत्वा तदा वाक्यमङ्गदस्य मुखोद्गतम्
अब्रवीद्वचनं गृध्रस्तीक्ष्णतुण्डो महास्वनः
कोऽयं गिरा घोषयति प्राणैः प्रियतरस्य मे
जटायुषो वधं भ्रातुः कम्पयन्निव मे मनः
कथमासीज्जनस्थाने युद्धं राक्षसगृध्रयोः
नामधेयमिदं भ्रातुश्चिरस्याद्य मया श्रुतम्
यवीयसो गुणज्ञस्य श्लाघनीयस्य विक्रमैः
तदिच्छेयमहं श्रोतुं विनाशं वानरर्षभाः
भ्रातुर्जटायुषस्तस्य जनस्थाननिवासिनः
तस्यैव च मम भ्रातुः सखा दशरथः कथम्
यस्य रामः प्रियः पुत्रो ज्येष्ठो गुरुजनप्रियः
सूर्यांशुदग्धपक्षत्वान्न शक्नोमि विसर्पितुम्
इच्छेयं पर्वतादस्मादवतर्तुमरिंदमाः