Kishkindhakanda, Sarga 54, Verse 1
श्रुत्वा हनुमतो वाक्यं प्रश्रितं धर्मसंहितम्
स्वामिसत्कारसंयुक्तमङ्गदो वाक्यमब्रवीत्
Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.
श्रुत्वा हनुमतो वाक्यं प्रश्रितं धर्मसंहितम्
स्वामिसत्कारसंयुक्तमङ्गदो वाक्यमब्रवीत्
स्थैर्यं सर्वात्मना शौचमानृशंस्यमथार्जवम्
विक्रमैश्चैव धैर्यं च सुग्रीवे नोपपद्यते
भ्रातुर्ज्येष्ठस्य यो भार्यां जीवितो महिषीं प्रियाम्
धर्मेण मातरं यस्तु स्वीकरोति जुगुप्सितः
कथं स धर्मं जानीते येन भ्रात्रा दुरात्मना
युद्धायाभिनियुक्तेन बिलस्य पिहितं मुखम्
सत्यात्पाणिगृहीतश्च कृतकर्मा महायशाः
विस्मृतो राघवो येन स कस्य सुकृतं स्मरेत्
लक्ष्मणस्य भयाद्येन नाधर्मभयभीरुणा
आदिष्टा मार्गितुं सीतां धर्ममस्मिन्कथं भवेत्
तस्मिन्पापे कृतघ्ने तु स्मृतिहीने चलात्मनि
आर्यः को विश्वसेज्जातु तत्कुलीनो जिजीविषुः
राज्ये पुत्रं प्रतिष्ठाप्य सगुणो निर्गुणोऽपि वा
कथं शत्रुकुलीनं मां सुग्रीवो जीवयिष्यति
भिन्नमन्त्रोऽपराद्धश्च हीनशक्तिः कथं ह्यहम्
किष्किन्धां प्राप्य जीवेयमनाथ इव दुर्बलः
उपांशुदण्डेन हि मां बन्धनेनोपपादयेत्
शठः क्रूरो नृशंसश्च सुग्रीवो राज्यकारणात्
बन्धनाच्चावसादान्मे श्रेयः प्रायोपवेशनम्
अनुजानीत मां सर्वे गृहान्गच्छन्तु वानराः
अहं वः प्रतिजानामि न गमिष्याम्यहं पुरीम्
इहैव प्रायमासिष्ये श्रेयो मरणमेव मे
अभिवादनपूर्वं तु राजा कुशलमेव च
वाच्यस्ततो यवीयान्मे सुग्रीवो वानरेश्वरः
आरोग्यपूर्वं कुशलं वाच्या माता रुमा च मे
मातरं चैव मे तारामाश्वासयितुमर्हथ
प्रकृत्या प्रियपुत्रा सा सानुक्रोशा तपस्विनी
विनष्टं मामिह श्रुत्वा व्यक्तं हास्यति जीवितम्
एतावदुक्त्वा वचनं वृद्धानप्यभिवाद्य च
संविवेशाङ्गदो भूमौ रुदन्दर्भेषु दुर्मनाः
तस्य संविशतस्तत्र रुदन्तो वानरर्षभाः
नयनेभ्यः प्रमुमुचुरुष्णं वै वारिदुःखिताः
सुग्रीवं चैव निन्दन्तः प्रशंसन्तश्च वालिनम्
परिवार्याङ्गदो सर्वे व्यवस्यन्प्रायमासितुम्
मतं तद्वालिपुत्रस्य विज्ञाय प्लवगर्षभाः
उपस्पृश्योदकं सर्वे प्राङ्मुखाः समुपाविशन्
दक्षिणाग्रेषु दर्भेषु उदक्तीरं समाश्रिताः
स संविशद्भिर्बहुभिर्महीधरो; महाद्रिकूटप्रमितैः प्लवंगमैः
बभूव संनादितनिर्झरान्तरो; भृशं नदद्भिर्जलदैरिवोल्बणैः