Kishkindhakanda, Sarga 52, Verse 1
एवमुक्तः शुभं वाक्यं तापस्या धर्मसंहितम्
उवाच हनुमान्वाक्यं तामनिन्दितचेष्टिताम्
Containing 33 sacred Sanskrit shlokas with multi-author commentaries and translations.
एवमुक्तः शुभं वाक्यं तापस्या धर्मसंहितम्
उवाच हनुमान्वाक्यं तामनिन्दितचेष्टिताम्
शरणं त्वां प्रपन्नाः स्मः सर्वे वै धर्मचारिणि
यः कृतः समयोऽस्माकं सुग्रीवेण महात्मना
स तु कालो व्यतिक्रान्तो बिले च परिवर्तताम्
सा त्वमस्माद्बिलाद्घोरादुत्तारयितुमर्हसि
तस्मात्सुग्रीववचनादतिक्रान्तान्गतायुषः
त्रातुमर्हसि नः सर्वान्सुग्रीवभयशङ्कितान्
महच्च कार्यमस्माभिः कर्तव्यं धर्मचारिणि
तच्चापि न कृतं कार्यमस्माभिरिह वासिभिः
एवमुक्ता हनुमता तापसी वाक्यमब्रवीत्
जीवता दुष्करं मन्ये प्रविष्टेन निवर्तितुम्
तपसस्तु प्रभावेन नियमोपार्जितेन च
सर्वानेव बिलादस्मादुद्धरिष्यामि वानरान्
निमीलयत चक्षूंषि सर्वे वानरपुंगवाः
न हि निष्क्रमितुं शक्यमनिमीलितलोचनैः
ततः संमीलिताः सर्वे सुकुमाराङ्गुलैः करैः
सहसा पिदधुर्दृष्टिं हृष्टा गमनकाङ्क्षिणः
वानरास्तु महात्मानो हस्तरुद्धमुखास्तदा
निमेषान्तरमात्रेण बिलादुत्तारितास्तया
ततस्तान्वानरान्सर्वांस्तापसी धर्मचारिणी
निःसृतान्विषमात्तस्मात्समाश्वास्येदमब्रवीत्
एष विन्ध्यो गिरिः श्रीमान्नानाद्रुमलतायुतः
एष प्रसवणः शैलः सागरोऽयं महोदधिः
स्वस्ति वोऽस्तु गमिष्यामि भवनं वानरर्षभाः
इत्युक्त्वा तद्बिलं श्रीमत्प्रविवेश स्वयंप्रभा
ततस्ते ददृशुर्घोरं सागरं वरुणालयम्
अपारमभिगर्जन्तं घोरैरूर्मिभिराकुलम्
मयस्य माया विहितं गिरिदुर्गं विचिन्वताम्
तेषां मासो व्यतिक्रान्तो यो राज्ञा समयः कृतः
विन्ध्यस्य तु गिरेः पादे संप्रपुष्पितपादपे
उपविश्य महाभागाश्चिन्तामापेदिरे तदा
ततः पुष्पातिभाराग्राँल्लताशतसमावृतान्
द्रुमान्वासन्तिकान्दृष्ट्वा बभूवुर्भयशङ्किताः
ते वसन्तमनुप्राप्तं प्रतिवेद्य परस्परम्
नष्टसंदेशकालार्था निपेतुर्धरणीतले
स तु सिंहर्षभ स्कन्धः पीनायतभुजः कपिः
युवराजो महाप्राज्ञ अङ्गदो वाक्यमब्रवीत्
शासनात्कपिराजस्य वयं सर्वे विनिर्गताः
मासः पूर्णो बिलस्थानां हरयः किं न बुध्यते
तस्मिन्नतीते काले तु सुग्रीवेण कृते स्वयम्
प्रायोपवेशनं युक्तं सर्वेषां च वनौकसाम्
तीक्ष्णः प्रकृत्या सुग्रीवः स्वामिभावे व्यवस्थितः
न क्षमिष्यति नः सर्वानपराधकृतो गतान्
अप्रवृत्तौ च सीतायाः पापमेव करिष्यति
तस्मात्क्षममिहाद्यैव प्रायोपविशनं हि नः
त्यक्त्वा पुत्रांश्च दारांश्च धनानि च गृहाणि च
यावन्न घातयेद्राजा सर्वान्प्रतिगतानितः
वधेनाप्रतिरूपेण श्रेयान्मृत्युरिहैव नः
न चाहं यौवराज्येन सुग्रीवेणाभिषेचितः
नरेन्द्रेणाभिषिक्तोऽस्मि रामेणाक्लिष्टकर्मणा
स पूर्वं बद्धवैरो मां राजा दृष्ट्वा व्यतिक्रमम्
घातयिष्यति दण्डेन तीक्ष्णेन कृतनिश्चयः
किं मे सुहृद्भिर्व्यसनं पश्यद्भिर्जीवितान्तरे
इहैव प्रायमासिष्ये पुण्ये सागररोधसि
एतच्छ्रुत्वा कुमारेण युवराजेन भाषितम्
सर्वे ते वानरश्रेष्ठाः करुणं वाक्यमब्रुवन्
तीक्ष्णः प्रकृत्या सुग्रीवः प्रियासक्तश्च राघवः
अदृष्टायां च वैदेह्यां दृष्ट्वास्मांश्च समागतान्
राघवप्रियकामार्थं घातयिष्यत्यसंशयम्
न क्षमं चापराद्धानां गमनं स्वामिपार्श्वतः