Kishkindhakanda, Sarga 50, Verse 1
इत्युक्त्वा हनुमांस्तत्र पुनः कृष्णाजिनाम्बराम्
अब्रवीत्तां महाभागां तापसीं धर्मचारिणीम्
Containing 19 sacred Sanskrit shlokas with multi-author commentaries and translations.
इत्युक्त्वा हनुमांस्तत्र पुनः कृष्णाजिनाम्बराम्
अब्रवीत्तां महाभागां तापसीं धर्मचारिणीम्
इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम्
क्षुत्पिपासा परिश्रान्ताः परिखिन्नाश्च सर्वशः
महद्धिरण्या विवरं प्रविष्टाः स्म पिपासिताः
इमांस्त्वेवं विधान्भावान्विविधानद्भुतोपमान्
दृष्ट्वा वयं प्रव्यथिताः संभ्रान्ता नष्टचेतसः
कस्येमे काञ्चना वृक्षास्तरुणादित्यसंनिभाः
शुचीन्यभ्यवहार्याणि मूलानि च फलानि च
काञ्चनानि विमानानि राजतानि गृहाणि च
तपनीय गवाक्षाणि मणिजालावृतानि च
पुष्पिताः फालवन्तश्च पुण्याः सुरभिगन्धिनः
इमे जाम्बूनदमयाः पादपाः कस्य तेजसा
काञ्चनानि च पद्मानि जातानि विमले जले
कथं मत्स्याश्च सौवर्णा चरन्ति सह कच्छपैः
आत्मानमनुभावं च कस्य चैतत्तपोबलम्
अजानतां नः सर्वेषां सर्वमाख्यातुमर्हसि
एवमुक्ता हनुमता तापसी धर्मचारिणी
प्रत्युवाच हनूमन्तं सर्वभूतहिते रता
मयो नाम महातेजा मायावी दानवर्षभः
तेनेदं निर्मितं सर्वं मायया काञ्चनं वनम्
पुरा दानवमुख्यानां विश्वकर्मा बभूव ह
येनेदं काञ्चनं दिव्यं निर्मितं भवनोत्तमम्
स तु वर्षसहस्राणि तपस्तप्त्वा महावने
पितामहाद्वरं लेभे सर्वमौशसनं धनम्
विधाय सर्वं बलवान्सर्वकामेश्वरस्तदा
उवास सुखितः कालं कंचिदस्मिन्महावने
तमप्सरसि हेमायां सक्तं दानवपुंगवम्
विक्रम्यैवाशनिं गृह्य जघानेशः पुरंदरः
इदं च ब्रह्मणा दत्तं हेमायै वनमुत्तमम्
शाश्वतः कामभोगश्च गृहं चेदं हिरण्मयम्
दुहिता मेरुसावर्णेरहं तस्याः स्वयं प्रभा
इदं रक्षामि भवनं हेमाया वानरोत्तम
मम प्रियसखी हेमा नृत्तगीतविशारदा
तया दत्तवरा चास्मि रक्षामि भवनोत्तमम्
किं कार्यं कस्य वा हेतोः कान्ताराणि प्रपद्यथ
कथं चेदं वनं दुर्गं युष्माभिरुपलक्षितम्
इमान्यभ्यवहार्याणि मूलानि च फलानि च
भुक्त्वा पीत्वा च पानीयं सर्वं मे वक्तुमर्हथ