Kishkindhakanda, Sarga 49, Verse 1
सह ताराङ्गदाभ्यां तु संगम्य हनुमान्कपिः
विचिनोति स्म विन्ध्यस्य गुहाश्च गहनानि च
Containing 32 sacred Sanskrit shlokas with multi-author commentaries and translations.
सह ताराङ्गदाभ्यां तु संगम्य हनुमान्कपिः
विचिनोति स्म विन्ध्यस्य गुहाश्च गहनानि च
सिंहशार्दूलजुष्टाश्च गुहाश्च परितस्तथा
विषमेषु नगेन्द्रस्य महाप्रस्रवणेषु च
तेषां तत्रैव वसतां स कालो व्यत्यवर्तत
स हि देशो दुरन्वेषो गुहा गहनवान्महान्
तत्र वायुसुतः सर्वं विचिनोति स्म पर्वतम्
परस्परेण रहिता अन्योन्यस्याविदूरतः
गजो गवाक्षो गवयः शरभो गन्धमादनः
मैन्दश्च द्विविदश्चैव हनुमाञ्जाम्बवानपि
अङ्गदो युवराजश्च तारश्च वनगोचरः
गिरिजालावृतान्देशान्मार्गित्वा दक्षिणां दिशम्
क्षुत्पिपासा परीताश्च श्रान्ताश्च सलिलार्थिनः
अवकीर्णं लतावृक्षैर्ददृशुस्ते महाबिलम्
ततः क्रौञ्चाश्च हंसाश्च सारसाश्चापि निष्क्रमन्
जलार्द्राश्चक्रवाकाश्च रक्ताङ्गाः पद्मरेणुभिः
ततस्तद्बिलमासाद्य सुगन्धि दुरतिक्रमम्
विस्मयव्यग्रमनसो बभूवुर्वानरर्षभाः
संजातपरिशङ्कास्ते तद्बिलं प्लवगोत्तमाः
अभ्यपद्यन्त संहृष्टास्तेजोवन्तो महाबलाः
ततः पर्वतकूटाभो हनुमान्मारुतात्मजः
अब्रवीद्वानरान्सर्वान्कान्तार वनकोविदः
गिरिजालावृतान्देशान्मार्गित्वा दक्षिणां दिशम्
वयं सर्वे परिश्रान्ता न च पश्यामि मैथिलीम्
अस्माच्चापि बिलाद्धंसाः क्रौञ्चाश्च सह सारसैः
जलार्द्राश्चक्रवाकाश्च निष्पतन्ति स्म सर्वशः
नूनं सलिलवानत्र कूपो वा यदि वा ह्रदः
तथा चेमे बिलद्वारे स्निग्धास्तिष्ठन्ति पादपाः
इत्युक्तास्तद्बिलं सर्वे विविशुस्तिमिरावृतम्
अचन्द्रसूर्यं हरयो ददृशू रोमहर्षणम्
ततस्तस्मिन्बिले दुर्गे नानापादपसंकुले
अन्योन्यं संपरिष्वज्य जग्मुर्योजनमन्तरम्
ते नष्टसंज्ञास्तृषिताः संभ्रान्ताः सलिलार्थिनः
परिपेतुर्बिले तस्मिन्कंचित्कालमतन्द्रिताः
ते कृशा दीनवदनाः परिश्रान्ताः प्लवंगमाः
आलोकं ददृशुर्वीरा निराशा जीविते तदा
ततस्तं देशमागम्य सौम्यं वितिमिरं वनम्
ददृशुः काञ्चनान्वृक्षान्दीप्तवैश्वानरप्रभान्
सालांस्तालांश्च पुंनागान्ककुभान्वञ्जुलान्धवान्
चम्पकान्नागवृक्षांश्च कर्णिकारांश्च पुष्पितान्
तरुणादित्यसंकाशान्वैदूर्यमयवेदिकान्
नीलवैदूर्यवर्णाश्च पद्मिनीः पतगावृताः
महद्भिः काञ्चनैर्वृक्षैर्वृतं बालार्क संनिभैः
जातरूपमयैर्मत्स्यैर्महद्भिश्च सकच्छपैः
नलिनीस्तत्र ददृशुः प्रसन्नसलिलायुताः
काञ्चनानि विमानानि राजतानि तथैव च
तपनीयगवाक्षाणि मुक्ताजालावृतानि च
हैमराजतभौमानि वैदूर्यमणिमन्ति च
ददृशुस्तत्र हरयो गृहमुख्यानि सर्वशः
पुष्पितान्फलिनो वृक्षान्प्रवालमणिसंनिभान्
काञ्चनभ्रमरांश्चैव मधूनि च समन्ततः
मणिकाञ्चनचित्राणि शयनान्यासनानि च
महार्हाणि च यानानि ददृशुस्ते समन्ततः
हैमराजतकांस्यानां भाजनानां च संचयान्
अगरूणां च दिव्यानां चन्दनानां च संचयान्
शुचीन्यभ्यवहार्याणि मूलानि च फलानि च
महार्हाणि च पानानि मधूनि रसवन्ति च
दिव्यानामम्बराणां च महार्हाणां च संचयान्
कम्बलानां च चित्राणामजिनानां च संचयान्
तत्र तत्र विचिन्वन्तो बिले तत्र महाप्रभाः
ददृशुर्वानराः शूराः स्त्रियं कांचिददूरतः