Kishkindhakanda, Sarga 44, Verse 1
तदुग्रशासनं भर्तुर्विज्ञाय हरिपुंगवाः
शलभा इव संछाद्य मेदिनीं संप्रतस्थिरे
Containing 15 sacred Sanskrit shlokas with multi-author commentaries and translations.
तदुग्रशासनं भर्तुर्विज्ञाय हरिपुंगवाः
शलभा इव संछाद्य मेदिनीं संप्रतस्थिरे
रामः प्रस्रवणे तस्मिन्न्यवसत्सहलक्ष्मणः
प्रतीक्षमाणस्तं मासं यः सीताधिगमे कृतः
उत्तरां तु दिशं रम्यां गिरिराजसमावृताम्
प्रतस्थे सहसा वीरो हरिः शतबलिस्तदा
पूर्वां दिशं प्रति ययौ विनतो हरियूथपः
ताराङ्गदादि सहितः प्लवगः पवनात्मजः
अगस्त्यचरितामाशां दक्षिणां हरियूथपः
पश्चिमां तु दिशं घोरां सुषेणः प्लवगेश्वरः
प्रतस्थे हरिशार्दूलो भृशं वरुणपालिताम्
ततः सर्वा दिशो राजा चोदयित्वा यथा तथम्
कपिसेना पतीन्मुख्यान्मुमोद सुखितः सुखम्
एवं संचोदिताः सर्वे राज्ञा वानरयूथपाः
स्वां स्वां दिशमभिप्रेत्य त्वरिताः संप्रतस्थिरे
नदन्तश्चोन्नदन्तश्च गर्जन्तश्च प्लवंगमाः
क्ष्वेलन्तो धावमानाश्च ययुः प्लवगसत्तमाः
आनयिष्यामहे सीतां हनिष्यामश्च रावणम्
अहमेको हनिष्यामि प्राप्तं रावणमाहवे
ततश्चोन्मथ्य सहसा हरिष्ये जनकात्मजाम्
वेपमानं श्रमेणाद्य भवद्भिः स्थीयतामिति
एक एवाहरिष्यामि पातालादपि जानकीम्
विधमिष्याम्यहं वृक्षान्दारयिष्याम्यहं गिरीन्
धरणीं दारयिष्यामि क्षोभयिष्यामि सागरान्
अहं योजनसंख्यायाः प्लविता नात्र संशयः
शतं योजनसंख्यायाः शतं समधिकं ह्यहम्
भूतले सागरे वापि शैलेषु च वनेषु च
पातालस्यापि वा मध्ये न ममाच्छिद्यते गतिः
इत्येकैकं तदा तत्र वानरा बलदर्पिताः
ऊचुश्च वचनं तस्मिन्हरिराजस्य संनिधौ