Kishkindhakanda, Sarga 43, Verse 1
विशेषेण तु सुग्रीवो हनुमत्यर्थमुक्तवान्
स हि तस्मिन्हरिश्रेष्ठे निश्चितार्थोऽर्थसाधने
Containing 16 sacred Sanskrit shlokas with multi-author commentaries and translations.
विशेषेण तु सुग्रीवो हनुमत्यर्थमुक्तवान्
स हि तस्मिन्हरिश्रेष्ठे निश्चितार्थोऽर्थसाधने
न भूमौ नान्तरिक्षे वा नाम्बरे नामरालये
नाप्सु वा गतिसंगं ते पश्यामि हरिपुंगव
सासुराः सहगन्धर्वाः सनागनरदेवताः
विदिताः सर्वलोकास्ते ससागरधराधराः
गतिर्वेगश्च तेजश्च लाघवं च महाकपे
पितुस्ते सदृशं वीर मारुतस्य महौजसः
तेजसा वापि ते भूतं समं भुवि न विद्यते
तद्यथा लभ्यते सीता तत्त्वमेवोपपादय
त्वय्येव हनुमन्नस्ति बलं बुद्धिः पराक्रमः
देशकालानुवृत्तश्च नयश्च नयपण्डित
ततः कार्यसमासंगमवगम्य हनूमति
विदित्वा हनुमन्तं च चिन्तयामास राघवः
सर्वथा निश्चितार्थोऽयं हनूमति हरीश्वरः
निश्चितार्थतरश्चापि हनूमान्कार्यसाधने
तदेवं प्रस्थितस्यास्य परिज्ञातस्य कर्मभिः
भर्त्रा परिगृहीतस्य ध्रुवः कार्यफलोदयः
तं समीक्ष्य महातेजा व्यवसायोत्तरं हरिम्
कृतार्थ इव संवृत्तः प्रहृष्टेन्द्रियमानसः
ददौ तस्य ततः प्रीतः स्वनामाङ्कोपशोभितम्
अङ्गुलीयमभिज्ञानं राजपुत्र्याः परंतपः
अनेन त्वां हरिश्रेष्ठ चिह्नेन जनकात्मजा
मत्सकाशादनुप्राप्तमनुद्विग्नानुपश्यति
व्यवसायश्च ते वीर सत्त्वयुक्तश्च विक्रमः
सुग्रीवस्य च संदेशः सिद्धिं कथयतीव मे
स तद्गृह्य हरिश्रेष्ठः स्थाप्य मूर्ध्नि कृताञ्जलिः
वन्दित्वा चरणौ चैव प्रस्थितः प्लवगोत्तमः
स तत्प्रकर्षन्हरिणां बलं मह;द्बभूव वीरः पवनात्मजः कपि
गताम्बुदे व्योम्नि विशुद्धमण्डलः; शशीव नक्षत्रगणोपशोभितः
अतिबलबलमाश्रितस्तवाहं; हरिवरविक्रमविक्रमैरनल्पैः
पवनसुत यथाभिगम्यते सा; जनकसुता हनुमंस्तथा कुरुष्व