Kishkindhakanda, Sarga 42, Verse 1
ततः संदिश्य सुग्रीवः श्वशुरं पश्चिमां दिशम्
वीरं शतबलिं नाम वानरं वानरर्षभः
Containing 62 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततः संदिश्य सुग्रीवः श्वशुरं पश्चिमां दिशम्
वीरं शतबलिं नाम वानरं वानरर्षभः
उवाच राजा मन्त्रज्ञः सर्ववानरसंमतम्
वाक्यमात्महितं चैव रामस्य च हितं तथा
वृतः शतसहस्रेण त्वद्विधानां वनौकसाम्
वैवस्वत सुतैः सार्धं प्रतिष्ठस्व स्वमन्त्रिभिः
दिशं ह्युदीचीं विक्रान्तां हिमशैलावतंसकाम्
सर्वतः परिमार्गध्वं रामपत्नीमनिन्दिताम्
अस्मिन्कार्ये विनिवृत्ते कृते दाशरथेः प्रिये
ऋणान्मुक्ता भविष्यामः कृतार्थार्थविदां वराः
कृतं हि प्रियमस्माकं राघवेण महात्मना
तस्य चेत्प्रतिकारोऽस्ति सफलं जीवितं भवेत्
एतां बुद्धिं समास्थाय दृश्यते जानकी यथा
तथा भवद्भिः कर्तव्यमस्मत्प्रियहितैषिभिः
अयं हि सर्वभूतानां मान्यस्तु नरसत्तमः
अस्मासु चागतप्रीती रामः परपुरंजयः
इमानि वनदुर्गाणि नद्यः शैलान्तराणि च
भवन्तः परिमार्गंस्तु बुद्धिविक्रमसंपदा
तत्र म्लेच्छान्पुलिन्दांश्च शूरसेनांस्तथैव च
प्रस्थालान्भरतांश्चैव कुरूंश्च सह मद्रकैः
काम्बोजान्यवनांश्चैव शकानारट्टकानपि
बाह्लीकानृषिकांश्चैव पौरवानथ टङ्कणान्
चीनान्परमचीनांश्च नीहारांश्च पुनः पुनः
अन्विष्य दरदांश्चैव हिमवन्तं विचिन्वथ
लोध्रपद्मकषण्डेषु देवदारुवनेषु च
रावणः सह वैदेह्य मार्गितव्यस्ततस्ततः
ततः सोमाश्रमं गत्वा देवगन्धर्वसेवितम्
कालं नाम महासानुं पर्वतं तं गमिष्यथ
महत्सु तस्य शृङ्गेषु निर्दरेषु गुहासु च
विचिनुध्वं महाभागां रामपत्नीं यशस्विनीम्
तमतिक्रम्य शैलेन्द्रं हेमवर्गं महागिरिम्
ततः सुदर्शनं नाम पर्वतं गन्तुमर्हथ
तस्य काननषण्डेषु निर्दरेषु गुहासु च
रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः
तमतिक्रम्य चाकाशं सर्वतः शतयोजनम्
अपर्वतनदी वृक्षं सर्वसत्त्वविवर्जितम्
तं तु शीघ्रमतिक्रम्य कान्तारं रोमहर्षणम्
कैलासं पाण्डुरं शैलं प्राप्य हृष्टा भविष्यथ
तत्र पाण्डुरमेघाभं जाम्बूनदपरिष्कृतम्
कुबेरभवनं दिव्यं निर्मितं विश्वकर्मणा
विशाला नलिनी यत्र प्रभूतकमलोत्पला
हंसकारण्डवाकीर्णा अप्सरोगणसेविता
तत्र वैश्रवणो राजा सर्वभूतनमस्कृतः
धनदो रमते श्रीमान्गुह्यकैः सह यक्षराट्
तस्य चन्द्रनिकशेषु पर्वतेषु गुहासु च
रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः
क्रौञ्चं तु गिरिमासाद्य बिलं तस्य सुदुर्गमम्
अप्रमत्तैः प्रवेष्टव्यं दुष्प्रवेशं हि तत्स्मृतम्
वसन्ति हि महात्मानस्तत्र सूर्यसमप्रभाः
देवैरप्यर्चिताः सम्यग्देवरूपा महर्षयः
क्रौञ्चस्य तु गुहाश्चान्याः सानूनि शिखराणि च
निर्दराश्च नितम्बाश्च विचेतव्यास्ततस्ततः
क्रौञ्चस्य शिखरं चापि निरीक्ष्य च ततस्ततः
अवृक्षं कामशैलं च मानसं विहगालयम्
न गतिस्तत्र भूतानां देवदानवरक्षसाम्
स च सर्वैर्विचेतव्यः ससानुप्रस्थभूधरः
क्रौञ्चं गिरिमतिक्रम्य मैनाको नाम पर्वतः
मयस्य भवनं तत्र दानवस्य स्वयं कृतम्
मैनाकस्तु विचेतव्यः ससानुप्रस्थकन्दरः
स्त्रीणामश्वमुखीनां च निकेतास्तत्र तत्र तु