Kishkindhakanda, Sarga 41, Verse 1
ततः प्रस्थाप्य सुग्रीवस्तान्हरीन्दक्षिणां दिशम्
बुद्धिविक्रमसंपन्नान्वायुवेगसमाञ्जवे
Containing 52 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततः प्रस्थाप्य सुग्रीवस्तान्हरीन्दक्षिणां दिशम्
बुद्धिविक्रमसंपन्नान्वायुवेगसमाञ्जवे
अथाहूय महातेजाः सुषेणं नाम यूथपम्
तारायाः पितरं राजा श्वशुरभीमविक्रमम्
अब्रवीत्प्राञ्जलिर्वाक्यमभिगम्य प्रणम्य च
साहाय्यं कुरु रामस्य कृत्येऽस्मिन्समुपस्थिते
वृतः शतसहस्रेण वानराणां तरस्विनाम्
अभिगच्छ दिशं सौम्य पश्चिमां वारुणीं प्रभो
सुराष्ट्रान्सह बाह्लीकाञ्शूराभीरांस्तथैव च
स्फीताञ्जनपदान्रम्यान्विपुलानि पुराणि च
पुंनागगहनं कुक्षिं बहुलोद्दालकाकुलम्
तथा केतकषण्डांश्च मार्गध्वं हरियूथपाः
प्रत्यक्स्रोतोगमाश्चैव नद्यः शीतजलाः शिवाः
तापसानामरण्यानि कान्तारा गिरयश्च ये
गिरिजालावृतां दुर्गां मार्गित्वा पश्चिमां दिशम्
ततः पश्चिममासाद्य समुद्रं द्रष्टुमर्हथ
तिमि नक्रायुत जलमक्षोभ्यमथ वानरः
ततः केतकषण्डेषु तमालगहनेषु च
कपयो विहरिष्यन्ति नारिकेलवनेषु च
तत्र सीतां च मार्गध्वं निलयं रावणस्य च
मरीचिपत्तनं चैव रम्यं चैव जटीपुरम्
अवन्तीमङ्गलोपां च तथा चालक्षितं वनम्
राष्ट्राणि च विशालानि पत्तनानि ततस्ततः
सिन्धुसागरयोश्चैव संगमे तत्र पर्वतः
महान्हेमगिरिर्नाम शतशृङ्गो महाद्रुमः
तस्य प्रस्थेषु रम्येषु सिंहाः पक्षगमाः स्थिताः
तिमिमत्स्यगजांश्चैव नीडान्यारोपयन्ति ते
तानि नीडानि सिंहानां गिरिशृङ्गगताश्च ये
दृप्तास्तृप्ताश्च मातङ्गास्तोयदस्वननिःस्वनाः
विचरन्ति विशालेऽस्मिंस्तोयपूर्णे समन्ततः
तस्य शृङ्गं दिवस्पर्शं काञ्चनं चित्रपादपम्
सर्वमाशु विचेतव्यं कपिभिः कामरूपिभिः
कोटिं तत्र समुद्रे तु काञ्चनीं शतयोजनम्
दुर्दर्शां परियात्रस्य गता द्रक्ष्यथ वानराः
कोट्यस्तत्र चतुर्विंशद्गन्धर्वाणां तरस्विनाम्
वसन्त्यग्निनिकाशानां घोराणां कामरूपिणाम्
नात्यासादयितव्यास्ते वानरैर्भीमविक्रमैः
नादेयं च फलं तस्माद्देशात्किंचित्प्लवंगमैः
दुरासदा हि ते वीराः सत्त्ववन्तो महाबलाः
फलमूलानि ते तत्र रक्षन्ते भीमविक्रमाः
तत्र यत्नश्च कर्तव्यो मार्गितव्या च जानकी
न हि तेभ्यो भयं किंचित्कपित्वमनुवर्तताम्
चतुर्भागे समुद्रस्य चक्रवान्नाम पर्वतः
तत्र चक्रं सहस्रारं निर्मितं विश्वकर्मणा
तत्र पञ्चजनं हत्वा हयग्रीवं च दानवम्
आजहार ततश्चक्रं शङ्खं च पुरुषोत्तमः
तस्य सानुषु चित्रेषु विशालासु गुहासु च
रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः
योजनानि चतुःषष्टिर्वराहो नाम पर्वतः
सुवर्णशृङ्गः सुश्रीमानगाधे वरुणालये
तत्र प्राग्ज्योतिषं नाम जातरूपमयं पुरम्
यस्मिन्वस्ति दुष्टात्मा नरको नाम गुहासु च
तस्य सानुषु चित्रेषु विशालासु गुहासु च
रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः
तमतिक्रम्य शैलेन्द्रं काञ्चनान्तरनिर्दरः
पर्वतः सर्वसौवर्णो धारा प्रस्रवणायुतः
तं गजाश्च वराहाश्च सिंहा व्याघ्राश्च सर्वतः
अभिगर्जन्ति सततं तेन शब्देन दर्पिताः
तस्मिन्हरिहयः श्रीमान्महेन्द्रः पाकशासनः
अभिषिक्तः सुरै राजा मेघवान्नाम पर्वतः
तमतिक्रम्य शैलेन्द्रं महेन्द्रपरिपालितम्
षष्टिं गिरिसहस्राणि काञ्चनानि गमिष्यथ