Kishkindhakanda, Sarga 39, Verse 1
अथ राजा समृद्धार्थः सुग्रीवः प्लवगेश्वरः
उवाच नरशार्दूलं रामं परबलार्दनम्
Containing 63 sacred Sanskrit shlokas with multi-author commentaries and translations.
अथ राजा समृद्धार्थः सुग्रीवः प्लवगेश्वरः
उवाच नरशार्दूलं रामं परबलार्दनम्
आगता विनिविष्टाश्च बलिनः कामरूपिणः
वानरेन्द्रा महेन्द्राभा ये मद्विषयवासिनः
त इमे बहुसाहस्रैर्हरिभिर्भीमविक्रमैः
आगता वानरा घोरा दैत्यदानवसंनिभाः
ख्यातकर्मापदानाश्च बलवन्तो जितक्लमाः
पराक्रमेषु विख्याता व्यवसायेषु चोत्तमाः
पृथिव्यम्बुचरा राम नानानगनिवासिनः
कोट्यग्रश इमे प्राप्ता वानरास्तव किंकराः
निदेशवर्तिनः सर्वे सर्वे गुरुहिते रताः
अभिप्रेतमनुष्ठातुं तव शक्ष्यन्त्यरिंदम
यन्मन्यसे नरव्याघ्र प्राप्तकालं तदुच्यताम्
तत्सैन्यं त्वद्वशे युक्तमाज्ञापयितुमर्हसि
काममेषामिदं कार्यं विदितं मम तत्त्वतः
तथापि तु यथा तत्त्वमाज्ञापयितुमर्हसि
तथा ब्रुवाणं सुग्रीवं रामो दशरथात्मजः
बाहुभ्यां संपरिष्वज्य इदं वचनमब्रवीत्
ज्ञायतां सौम्य वैदेही यदि जीवति वा न वा
स च देशो महाप्राज्ञ यस्मिन्वसति रावणः
अधिगम्य च वैदेहीं निलयं रावणस्य च
प्राप्तकालं विधास्यामि तस्मिन्काले सह त्वया
नाहमस्मिन्प्रभुः कार्ये वानरेश न लक्ष्मणः
त्वमस्य हेतुः कार्यस्य प्रभुश्च प्लवगेश्वर
त्वमेवाज्ञापय विभो मम कार्यविनिश्चयम्
त्वं हि जानासि यत्कार्यं मम वीर न संशयः
सुहृद्द्वितीयो विक्रान्तः प्राज्ञः कालविशेषवित्
भवानस्मद्धिते युक्तः सुकृतार्थोऽर्थवित्तमः
एवमुक्तस्तु सुग्रीवो विनतं नाम यूथपम्
अब्रवीद्राम साम्निध्ये लक्ष्मणस्य च धीमतः
शैलाभं मेघनिर्घोषमूर्जितं प्लवगेश्वरम्
सोमसूर्यात्मजैः सार्धं वानरैर्वानरोत्तम
देशकालनयैर्युक्तः कार्याकार्यविनिश्चये
वृतः शतसहस्रेण वानराणां तरस्विनाम्
अधिगच्छ दिशं पूर्वां सशैलवनकाननाम्
तत्र सीतां च वैदेहीं निलयं रावणस्य च
मार्गध्वं गिरिदुर्गेषु वनेषु च नदीषु च
नदीं भागीरथीं रम्यां सरयूं कौशिकीं तथा
कालिन्दीं यमुनां रम्यां यामुनं च महागिरिम्
सरस्वतीं च सिन्धुं च शोणं मणिनिभोदकम्
महीं कालमहीं चैव शैलकाननशोभिताम्
ब्रह्ममालान्विदेहांश्च मालवान्काशिकोसलान्
मागधांश्च महाग्रामान्पुण्ड्रान्वङ्गांस्तथैव च
पत्तनं कोशकाराणां भूमिं च रजताकराम्
सर्वमेतद्विचेतव्यं मृगयद्भिर्ततस्ततः
रामस्य दयितां भार्यां सीतां दशरतः स्नुषाम्
समुद्रमवगाढांश्च पर्वतान्पत्तनानि च
मन्दरस्य च ये कोटिं संश्रिताः केचिदायताम्
कर्णप्रावरणाश्चैव तथा चाप्योष्ठकर्णकाः
घोरा लोहमुखाश्चैव जवनाश्चैकपादकाः
अक्षया बलवन्तश्च पुरुषाः पुरुषादकाः
किराताः कर्णचूडाश्च हेमाङ्गाः प्रियदर्शनाः
आममीनाशनास्तत्र किराता द्वीपवासिनः
अन्तर्जलचरा घोरा नरव्याघ्रा इति श्रुताः
एतेषामालयाः सर्वे विचेयाः काननौकसः
गिरिभिर्ये च गम्यन्ते प्लवनेन प्लवेन च
रत्नवन्तं यवद्वीपं सप्तराज्योपशोभितम्
सुवर्णरूप्यकं चैव सुवर्णाकरमण्डितम्
यवद्वीपमतिक्रम्य शिशिरो नाम पर्वतः
दिवं स्पृशति शृङ्गेण देवदानवसेवितः
एतेषां गिरिदुर्गेषु प्रतापेषु वनेषु च