Kishkindhakanda, Sarga 35, Verse 1
इत्युक्तस्तारया वाक्यं प्रश्रितं धर्मसंहितम्
मृदुस्वभावः सौमित्रिः प्रतिजग्राह तद्वचः
Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.
इत्युक्तस्तारया वाक्यं प्रश्रितं धर्मसंहितम्
मृदुस्वभावः सौमित्रिः प्रतिजग्राह तद्वचः
तस्मिन्प्रतिगृहीते तु वाक्ये हरिगणेश्वरः
लक्ष्मणात्सुमहत्त्रासं वस्त्रं क्लिन्नमिवात्यजत्
ततः कण्ठगतं माल्यं चित्रं बहुगुणं महत्
चिच्छेद विमदश्चासीत्सुग्रीवो वानरेश्वरः
स लक्ष्मणं भीमबलं सर्ववानरसत्तमः
अब्रवीत्प्रश्रितं वाक्यं सुग्रीवः संप्रहर्षयन्
प्रनष्टा श्रीश्च कीर्तिश्च कपिराज्यं च शाश्वतम्
रामप्रसादात्सौमित्रे पुनः प्राप्तमिदं मया
कः शक्तस्तस्य देवस्य ख्यातस्य स्वेन कर्मणा
तादृशं विक्रमं वीर प्रतिकर्तुमरिंदम
सीतां प्राप्स्यति धर्मात्मा वधिष्यति च रावणम्
सहायमात्रेण मया राघवः स्वेन तेजसा
सहायकृत्यं हि तस्य येन सप्त महाद्रुमाः
शैलश्च वसुधा चैव बाणेनैकेन दारिताः
धनुर्विस्फारमाणस्य यस्य शब्देन लक्ष्मण
सशैला कम्पिता भूमिः सहायैस्तस्य किं नु वै
अनुयात्रां नरेन्द्रस्य करिष्येऽहं नरर्षभ
गच्छतो रावणं हन्तुं वैरिणं सपुरःसरम्
यदि किंचिदतिक्रान्तं विश्वासात्प्रणयेन वा
प्रेष्यस्य क्षमितव्यं मे न कश्चिन्नापराध्यति
इति तस्य ब्रुवाणस्य सुग्रीवस्य महात्मनः
अभवल्लक्ष्मणः प्रीतः प्रेंणा चेदमुवाच ह
सर्वथा हि मम भ्राता सनाथो वानरेश्वर
त्वया नाथेन सुग्रीव प्रश्रितेन विशेषतः
यस्ते प्रभावः सुग्रीव यच्च ते शौचमुत्तमम्
अर्हस्तं कपिराज्यस्य श्रियं भोक्तुमनुत्तमाम्
सहायेन च सुग्रीव त्वया रामः प्रतापवान्
वधिष्यति रणे शत्रूनचिरान्नात्र संशयः
धर्मज्ञस्य कृतज्ञस्य संग्रामेष्वनिवर्तिनः
उपपन्नं च युक्तं च सुग्रीव तव भाषितम्
दोषज्ञः सति सामर्थ्ये कोऽन्यो भाषितुमर्हति
वर्जयित्वा मम ज्येष्ठं त्वां च वानरसत्तम
सदृशश्चासि रामस्य विक्रमेण बलेन च
सहायो दैवतैर्दत्तश्चिराय हरिपुंगव
किं तु शीघ्रमितो वीर निष्क्राम त्वं मया सह
सान्त्वयस्व वयस्यं च भार्याहरणदुःखितम्
यच्च शोकाभिभूतस्य श्रुत्वा रामस्य भाषितम्
मया त्वं परुषाण्युक्तस्तच्च त्वं क्षन्तुमर्हसि