Kishkindhakanda, Sarga 34, Verse 1
तथा ब्रुवाणं सौमित्रिं प्रदीप्तमिव तेजसा
अब्रवील्लक्ष्मणं तारा ताराधिपनिभानना
Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.
तथा ब्रुवाणं सौमित्रिं प्रदीप्तमिव तेजसा
अब्रवील्लक्ष्मणं तारा ताराधिपनिभानना
नैवं लक्ष्मण वक्तव्यो नायं परुषमर्हति
हरीणामीश्वरः श्रोतुं तव वक्त्राद्विशेषतः
नैवाकृतज्ञः सुग्रीवो न शठो नापि दारुणः
नैवानृतकथो वीर न जिह्मश्च कपीश्वरः
उपकारं कृतं वीरो नाप्ययं विस्मृतः कपिः
रामेण वीर सुग्रीवो यदन्यैर्दुष्करं रणे
रामप्रसादात्कीर्तिं च कपिराज्यं च शाश्वतम्
प्राप्तवानिह सुग्रीवो रुमां मां च परंतप
सुदुःखं शायितः पूर्वं प्राप्येदं सुखमुत्तमम्
प्राप्तकालं न जानीते विश्वामित्रो यथा मुनिः
घृताच्यां किल संसक्तो दशवर्षाणि लक्ष्मण
अहोऽमन्यत धर्मात्मा विश्वामित्रो महामुनिः
स हि प्राप्तं न जानीते कालं कालविदां वरः
विश्वामित्रो महातेजाः किं पुनर्यः पृथग्जनः
देहधर्मं गतस्यास्य परिश्रान्तस्य लक्ष्मण
अवितृप्तस्य कामेषु रामः क्षन्तुमिहार्हति
न च रोषवशं तात गन्तुमर्हसि लक्ष्मण
निश्चयार्थमविज्ञाय सहसा प्राकृतो यथा
सत्त्वयुक्ता हि पुरुषास्त्वद्विधाः पुरुषर्षभ
अविमृश्य न रोषस्य सहसा यान्ति वश्यताम्
प्रसादये त्वां धर्मज्ञ सुग्रीवार्थे समाहिता
महान्रोषसमुत्पन्नः संरम्भस्त्यज्यतामयम्
रुमां मां कपिराज्यं च धनधान्यवसूनि च
रामप्रियार्थं सुग्रीवस्त्यजेदिति मतिर्मम
समानेष्व्यति सुग्रीवः सीतया सह राघवम्
शशाङ्कमिव रोहिष्या निहत्वा रावणं रणे
शतकोटिसहस्राणि लङ्कायां किल रक्षसाम्
अयुतानि च षट्त्रिंशत्सहस्राणि शतानि च
अहत्वा तांश्च दुर्धर्षान्राक्षसान्कामरूपिणः
न शक्यो रावणो हन्तुं येन सा मैथिली हृता
ते न शक्या रणे हन्तुमसहायेन लक्ष्मण
रावणः क्रूरकर्मा च सुग्रीवेण विशेषतः
एवमाख्यातवान्वाली स ह्यभिज्ञो हरीश्वरः
आगमस्तु न मे व्यक्तः श्रवात्तस्य ब्रवीम्यहम्
त्वत्सहायनिमित्तं वै प्रेषिता हरिपुंगवाः
आनेतुं वानरान्युद्धे सुबहून्हरियूथपान्
तांश्च प्रतीक्षमाणोऽयं विक्रान्तान्सुमहाबलान्
राघवस्यार्थसिद्ध्यर्थं न निर्याति हरीश्वरः
कृता तु संस्था सौमित्रे सुग्रीवेण यथापुरा
अद्य तैर्वानरैर्सर्वैरागन्तव्यं महाबलैः
ऋक्षकोटिसहस्राणि गोलाङ्गूलशतानि च
अद्य त्वामुपयास्यन्ति जहि कोपमरिंदम
कोट्योऽनेकास्तु काकुत्स्थ कपीनां दीप्ततेजसाम्
तव हि मुखमिदं निरीक्ष्य कोपा;त्क्षतजनिभे नयने निरीक्षमाणाः
हरिवरवनिता न यान्ति शान्तिं; प्रथमभयस्य हि शङ्किताः स्म सर्वाः