Kishkindhakanda, Sarga 33, Verse 1
तमप्रतिहतं क्रुद्धं प्रविष्टं पुरुषर्षभम्
सुग्रीवो लक्ष्मणं दृष्ट्वा बभूव व्यथितेन्द्रियः
Containing 19 sacred Sanskrit shlokas with multi-author commentaries and translations.
तमप्रतिहतं क्रुद्धं प्रविष्टं पुरुषर्षभम्
सुग्रीवो लक्ष्मणं दृष्ट्वा बभूव व्यथितेन्द्रियः
क्रुद्धं निःश्वसमानं तं प्रदीप्तमिव तेजसा
भ्रातुर्व्यसनसंतप्तं दृष्ट्वा दशरथात्मजम्
उत्पपात हरिश्रेष्ठो हित्वा सौवर्णमासनम्
महान्महेन्द्रस्य यथा स्वलंकृत इव ध्वजः
उत्पतन्तमनूत्पेतू रुमाप्रभृतयः स्त्रियः
सुग्रीवं गगने पूर्णं चन्द्रं तारागणा इव
संरक्तनयनः श्रीमान्विचचाल कृताञ्जलिः
बभूवावस्थितस्तत्र कल्पवृक्षो महानिव
रुमा द्वितीयं सुग्रीवं नारीमध्यगतं स्थितम्
अब्रवील्लक्ष्मणः क्रुद्धः सतारं शशिनं यथा
सत्त्वाभिजनसंपन्नः सानुक्रोशो जितेन्द्रियः
कृतज्ञः सत्यवादी च राजा लोके महीयते
यस्तु राजा स्थितोऽधर्मे मित्राणामुपकारिणाम्
मिथ्याप्रतिज्ञां कुरुते को नृशंसतरस्ततः
शतमश्वानृते हन्ति सहस्रं तु गवानृते
आत्मानं स्वजनं हन्ति पुरुषः पुरुषानृते
पूर्वं कृतार्थो मित्राणां न तत्प्रतिकरोति यः
कृतघ्नः सर्वभूतानां स वध्यः प्लवगेश्वर
गीतोऽयं ब्रह्मणा श्लोकः सर्वलोकनमस्कृतः
दृष्ट्वा कृतघ्नं क्रुद्धेन तं निबोध प्लवंगम
ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा
निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः
अनार्यस्त्वं कृतघ्नश्च मिथ्यावादी च वानर
पूर्वं कृतार्थो रामस्य न तत्प्रतिकरोषि यत्
ननु नाम कृतार्थेन त्वया रामस्य वानर
सीताया मार्गणे यत्नः कर्तव्यः कृतमिच्छता
स त्वं ग्राम्येषु भोगेषु सक्तो मिथ्या प्रतिश्रवः
न त्वां रामो विजानीते सर्पं मण्डूकराविणम्
महाभागेन रामेण पापः करुणवेदिना
हरीणां प्रापितो राज्यं त्वं दुरात्मा महात्मना
कृतं चेन्नाभिजानीषे रामस्याक्लिष्टकर्मणः
सद्यस्त्वं निशितैर्बाणैर्हतो द्रक्ष्यसि वालिनम्
न च संकुचितः पन्था येन वाली हतो गतः
समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः
न नूनमिक्ष्वाकुवरस्य कार्मुका;च्च्युताञ्शरान्पश्यसि वज्रसंनिभान्
ततः सुखं नाम निषेवसे सुखी; न रामकार्यं मनसाप्यवेक्षसे