Kishkindhakanda, Sarga 30, Verse 1
स कामिनं दीनमदीनसत्त्वः; शोकाभिपन्नं समुदीर्णकोपम्
नरेन्द्रसूनुर्नरदेवपुत्रं; रामानुजः पूर्वजमित्युवाच
Containing 43 sacred Sanskrit shlokas with multi-author commentaries and translations.
स कामिनं दीनमदीनसत्त्वः; शोकाभिपन्नं समुदीर्णकोपम्
नरेन्द्रसूनुर्नरदेवपुत्रं; रामानुजः पूर्वजमित्युवाच
न वानरः स्थास्यति साधुवृत्ते; न मंस्यते कार्यफलानुषङ्गान्
न भक्ष्यते वानरराज्यलक्ष्मीं; तथा हि नाभिक्रमतेऽस्य बुद्धिः
मतिक्षयाद्ग्राम्यसुखेषु सक्त;स्तव प्रसादाप्रतिकारबुद्धिः
हतोऽग्रजं पश्यतु वालिनं स; न राज्यमेवं विगुणस्य देयम्
न धारये कोपमुदीर्णवेगं; निहन्मि सुग्रीवमसत्यमद्य
हरिप्रवीरैः सह वालिपुत्रो; नरेन्द्रपत्न्या विचयं करोतु
तमात्तबाणासनमुत्पतन्तं; निवेदितार्थं रणचण्डकोपम्
उवच रामः परवीरहन्ता; स्ववेक्षितं सानुनयं च वाक्यम्
न हि वै त्वद्विधो लोके पापमेवं समाचरेत्
पापमार्येण यो हन्ति स वीरः पुरुषोत्तमः
नेदमद्य त्वया ग्राह्यं साधुवृत्तेन लक्ष्मण
तां प्रीतिमनुवर्तस्व पूर्ववृत्तं च संगतम्
सामोपहितया वाचा रूक्षाणि परिवर्जयन्
वक्तुमर्हसि सुग्रीवं व्यतीतं कालपर्यये
सोऽ ग्रजेनानुशिष्टार्थो यथावत्पुरुषर्षभः
प्रविवेश पुरीं वीरो लक्ष्मणः परवीरहा
ततः शुभमतिः प्राज्ञो भ्रातुः प्रियहिते रतः
लक्ष्मणः प्रतिसंरब्धो जगाम भवनं कपेः
शक्रबाणासनप्रख्यं धनुः कालान्तकोपमः
प्रगृह्य गिरिशृङ्गाभं मन्दरः सानुमानिव
यथोक्तकारी वचनमुत्तरं चैव सोत्तरम्
बृहस्पतिसमो बुद्ध्या मत्त्वा रामानुजस्तदा
कामक्रोधसमुत्थेन भ्रातुः कोपाग्निना वृतः
प्रभञ्जन इवाप्रीतः प्रययौ लक्ष्मणस्तदा
सालतालाश्वकर्णांश्च तरसा पातयन्बहून्
पर्यस्यन्गिरिकूटानि द्रुमानन्यांश्च वेगतः
शिलाश्च शकलीकुर्वन्पद्भ्यां गज इवाशुगः
दूरमेकपदं त्यक्त्वा ययौ कार्यवशाद्द्रुतम्
तामपश्यद्बलाकीर्णां हरिराजमहापुरीम्
दुर्गामिक्ष्वाकुशार्दूलः किष्किन्धां गिरिसंकटे
रोषात्प्रस्फुरमाणौष्ठः सुग्रीवं प्रति कल्ष्मणः
ददर्श वानरान्भीमान्किष्किन्धाया बहिश्चरान्
शैलशृङ्गाणि शतशः प्रवृद्धांश्च महीरुहान्
जगृहुः कुञ्जरप्रख्या वानराः पर्वतान्तरे
तान्गृहीतप्रहरणान्हरीन्दृष्ट्वा तु लक्ष्मणः
बभूव द्विगुणं क्रुद्धो बह्विन्धन इवानलः
तं ते भयपरीताङ्गाः क्रुद्धं दृष्ट्वा प्लवंगमाः
कालमृत्युयुगान्ताभं शतशो विद्रुता दिशः
ततः सुग्रीवभवनं प्रविश्य हरिपुंगवाः
क्रोधमागमनं चैव लक्ष्मणस्य न्यवेदयन्
तारया सहितः कामी सक्तः कपिवृषो रहः
न तेषां कपिवीराणां शुश्राव वचनं तदा
ततः सचिवसंदिष्टा हरयो रोमहर्षणाः
गिरिकुञ्जरमेघाभा नगर्या निर्ययुस्तदा
नखदंष्ट्रायुधा घोराः सर्वे विकृतदर्शनाः
सर्वे शार्दूलदर्पाश्च सर्वे च विकृताननाः
दशनागबलाः केचित्केचिद्दशगुणोत्तराः
केचिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः
कृत्स्नां हि कपिभिर्व्याप्तां द्रुमहस्तैर्महाबलैः
अपश्यल्लक्ष्मणः क्रुद्धः किष्किन्धां तां दुरासदम्
ततस्ते हरयः सर्वे प्राकारपरिखान्तरात्
निष्क्रम्योदग्रसत्त्वास्तु तस्थुराविष्कृतं तदा
सुग्रीवस्य प्रमादं च पूर्वजं चार्तमात्मवान्
बुद्ध्वा कोपवशं वीरः पुनरेव जगाम सः
स दीर्घोष्णमहोच्छ्वासः कोपसंरक्तलोचनः
बभूव नरशार्दूलसधूम इव पावकः
बाणशल्यस्फुरज्जिह्वः सायकासनभोगवान्
स्वतेजोविषसंघातः पञ्चास्य इव पन्नगः