Kishkindhakanda, Sarga 29, Verse 1
गुहां प्रविष्टे सुग्रीवे विमुक्ते गगने घनैः
वर्षरात्रोषितो रामः कामशोकाभिपीडितः
Containing 52 sacred Sanskrit shlokas with multi-author commentaries and translations.
गुहां प्रविष्टे सुग्रीवे विमुक्ते गगने घनैः
वर्षरात्रोषितो रामः कामशोकाभिपीडितः
पाण्डुरं गगनं दृष्ट्वा विमलं चन्द्रमण्डलम्
शारदीं रजनीं चैव दृष्ट्वा ज्योत्स्नानुलेपनाम्
कामवृत्तं च सुग्रीवं नष्टां च जनकात्मजाम्
बुद्ध्वा कालमतीतं च मुमोह परमातुरः
स तु संज्ञामुपागम्य मुहूर्तान्मतिमान्पुनः
मनःस्थामपि वैदेहीं चिन्तयामास राघवः
आसीनः पर्वतस्याग्रे हेमधातुविभूषिते
शारदं गगनं दृष्ट्व जगाम मनसा प्रियाम्
दृष्ट्वा च विमलं व्योम गतविद्युद्बलाहकम्
सारसारवसंघुष्टं विललापार्तया गिरा
सारसारवसंनादैः सारसारवनादिनी
याश्रमे रमते बाला साद्य मे रमते कथम्
पुष्पितांश्चासनान्दृष्ट्वा काञ्चनानिव निर्मलान्
कथं स रमते बाला पश्यन्ती मामपश्यती
या पुरा कलहंसानां स्वरेण कलभाषिणी
बुध्यते चारुसर्वाङ्गी साद्य मे बुध्यते कथम्
निःस्वनं चक्रवाकानां निशम्य सहचारिणाम्
पुण्डरीकविशालाक्षी कथमेषा भविष्यति
सरांसि सरितो वापीः काननानि वनानि च
तां विना मृगशावाक्षीं चरन्नाद्य सुखं लभे
अपि तां मद्वियोगाच्च सौकुमार्याच्च भामिनीम्
न दूरं पीडयेत्कामः शरद्गुणनिरन्तरः
एवमादि नरश्रेष्ठो विललाप नृपात्मजः
विहंग इव सारङ्गः सलिलं त्रिदशेश्वरात्
ततश्चञ्चूर्य रम्येषु फलार्थी गिरिसानुषु
ददर्श पर्युपावृत्तो लक्ष्मीवाँल्लक्ष्मणोऽग्रजम्
तं चिन्तया दुःसहया परीतं; विसंज्ञमेकं विजने मनस्वी
भ्रातुर्विषादात्परितापदीनः; समीक्ष्य सौमित्रिरुवाच रामम्
किमार्य कामस्य वशंगतेन; किमात्मपौरुष्यपराभवेन
अयं सदा संहृइयते समाधिः; किमत्र योगेन निवर्तितेन
क्रियाभियोगं मनसः प्रसादं; समाधियोगानुगतं च कालम्
सहायसामर्थ्यमदीनसत्त्व; स्वकर्महेतुं च कुरुष्व हेतुम्
न जानकी मानववंशनाथ; त्वया सनाथा सुलभा परेण
न चाग्निचूडां ज्वलितामुपेत्य; न दह्यते वीरवरार्ह कश्चित्
सलक्ष्मणं लक्ष्मणमप्रधृष्यं; स्वभावजं वाक्यमुवाच रामः
हितं च पथ्यं च नयप्रसक्तं; ससामधर्मार्थसमाहितं च
निःसंशयं कार्यमवेक्षितव्यं; क्रियाविशेषो ह्यनुवर्तितव्यः
ननु प्रवृत्तस्य दुरासदस्य; कुमारकार्यस्य फलं न चिन्त्यम्
अथ पद्मपलाशाक्षीं मैथिलीमनुचिन्तयन्
उवाच लक्ष्मणं रामो मुखेन परिशुष्यता
तर्पयित्वा सहस्राक्षः सलिलेन वसुंधराम्
निर्वर्तयित्वा सस्यानि कृतकर्मा व्यवस्थितः
स्निग्धगम्भीरनिर्घोषाः शैलद्रुमपुरोगमाः
विसृज्य सलिलं मेघाः परिश्रान्ता नृपात्मज
नीलोत्पलदलश्यामः श्यामीकृत्वा दिशो दश
विमदा इव मातङ्गाः शान्तवेगाः पयोधराः
जलगर्भा महावेगाः कुटजार्जुनगन्धिनः
चरित्वा विरताः सौम्य वृष्टिवाताः समुद्यताः
घनानां वारणानां च मयूराणां च लक्ष्मण
नादः प्रस्रवणानां च प्रशान्तः सहसानघ
अभिवृष्टा महामेघैर्निर्मलाश्चित्रसानवः
अनुलिप्ता इवाभान्ति गिरयश्चन्द्ररश्मिभिः
दर्शयन्ति शरन्नद्यः पुलिनानि शनैः शनैः
नवसंगमसव्रीडा जघनानीव योषितः
प्रसन्नसलिलाः सौम्य कुररीभिर्विनादिताः
चक्रवाकगणाकीर्णा विभान्ति सलिलाशयाः
अन्योन्यबद्धवैराणां जिगीषूणां नृपात्मज
उद्योगसमयः सौम्य पार्थिवानामुपस्थितः