Kishkindhakanda, Sarga 28, Verse 1
समीक्ष्य विमलं व्योम गतविद्युद्बलाहकम्
सारसारवसंघुष्टं रम्यज्योत्स्नानुलेपनम्
Containing 32 sacred Sanskrit shlokas with multi-author commentaries and translations.
समीक्ष्य विमलं व्योम गतविद्युद्बलाहकम्
सारसारवसंघुष्टं रम्यज्योत्स्नानुलेपनम्
समृद्धार्थं च सुग्रीवं मन्दधर्मार्थसंग्रहम्
अत्यर्थमसतां मार्गमेकान्तगतमानसं
निवृत्तकार्यं सिद्धार्थं प्रमदाभिरतं सदा
प्राप्तवन्तमभिप्रेतान्सर्वानेव मनोरथान्
स्वां च पात्नीमभिप्रेतां तारां चापि समीप्सिताम्
विहरन्तमहोरात्रं कृतार्थं विगतज्वलम्
क्रीडन्तमिव देवेशं नन्दनेऽप्सरसां गणैः
मन्त्रिषु न्यस्तकार्यं च मन्त्रिणामनवेक्षकम्
उत्सन्नराज्यसंदेशं कामवृत्तमवस्थितम्
निश्चितार्थोऽर्थतत्त्वज्ञः कालधर्मविशेषवित्
प्रसाद्य वाक्यैर्मधुरैर्हेतुमद्भिर्मनोरमैः
वाक्यविद्वाक्यतत्त्वज्ञं हरीशं मारुतात्मजः
हितं तथ्यं च पथ्यं च सामधर्मार्थनीतिमत्
प्रणयप्रीतिसंयुक्तं विश्वासकृतनिश्चयम्
हरीश्वरमुपागम्य हनुमान्वाक्यमब्रवीत्
राज्यं प्राप्तं यशश्चैव कौली श्रीरभिवर्थिता
मित्राणां संग्रहः शेषस्तद्भवान्कर्तुमर्हति
यो हि मित्रेषु कालज्ञः सततं साधु वर्तते
तस्य राज्यं च कीर्तिश्च प्रतापश्चाभिवर्धते
यस्य कोशश्च दण्डश्च मित्राण्यात्मा च भूमिप
समवेतानि सर्वाणि स राज्यं महदश्नुते
तद्भवान्वृत्तसंपन्नः स्थितः पथि निरत्यये
मित्रार्थमभिनीतार्थं यथावत्कर्तुमर्हति
यस्तु कालव्यतीतेषु मित्रकार्येषु वर्तते
स कृत्वा महतोऽप्यर्थान्न मित्रार्थेन युज्यते
क्रियतां राघवस्यैतद्वैदेह्याः परिमार्गणम्
तदिदं वीर कार्यं ते कालातीतमरिंदम
न च कालमतीतं ते निवेदयति कालवित्
त्वरमाणोऽपि सन्प्राज्ञस्तव राजन्वशानुगः
कुलस्य केतुः स्फीतस्य दीर्घबन्धुश्च राघवः
अप्रमेयप्रभावश्च स्वयं चाप्रतिमो गुणैः
तस्य त्वं कुरु वै कार्यं पूर्वं तेन कृतं तव
हरीश्वर हरिश्रेष्ठानाज्ञापयितुमर्हसि
न हि तावद्भवेत्कालो व्यतीतश्चोदनादृते
चोदितस्य हि कार्यस्य भवेत्कालव्यतिक्रमः
अकर्तुरपि कार्यस्य भवान्कर्ता हरीश्वर
किं पुनः प्रतिकर्तुस्ते राज्येन च धनेन च
शक्तिमानसि विक्रान्तो वानरर्ष्क गणेश्वर
कर्तुं दाशरथेः प्रीतिमाज्ञायां किं नु सज्जसे
कामं खलु शरैर्शक्तः सुरासुरमहोरगान्
वशे दाशरथिः कर्तुं त्वत्प्रतिज्ञां तु काङ्क्षते
प्राणत्यागाविशङ्केन कृतं तेन तव प्रियम्
तस्य मार्गाम वैदेहीं पृथिव्यामपि चाम्बरे
न देवा न च गन्धर्वा नासुरा न मरुद्गणाः
न च यक्षा भयं तस्य कुर्युः किमुत राक्षसाः
तदेवं शक्तियुक्तस्य पूर्वं प्रियकृतस्तथा
रामस्यार्हसि पिङ्गेश कर्तुं सर्वात्मना प्रियम्
नाधस्तादवनौ नाप्सु गतिर्नोपरि चाम्बरे
कस्यचित्सज्जतेऽस्माकं कपीश्वर तवाज्ञया
तदाज्ञापय कः किं ते कृते वसतु कुत्रचित्
हरयो ह्यप्रधृष्यास्ते सन्ति कोट्यग्रतोऽनघ
तस्य तद्वचनं श्रुत्वा काले साधुनिवेदितम्
सुग्रीवः सत्त्वसंपन्नश्चकार मतिमुत्तमाम्
स संदिदेशाभिमतं नीलं नित्यकृतोद्यमम्
दिक्षु सर्वासु सर्वेषां सैन्यानामुपसंग्रहे
यथा सेना समग्रा मे यूथपालाश्च सर्वशः
समागच्छन्त्यसंगेन सेनाग्राणि तथा कुरु
ये त्वन्तपालाः प्लवगाः शीघ्रगा व्यवसायिनः
समानयन्तु ते सैन्यं त्वरिताः शासनान्मम
स्वयं चानन्तरं सैन्यं भवानेवानुपश्यतु