Kishkindhakanda, Sarga 27, Verse 1
स तदा वालिनं हत्वाह्सुग्रीवमभिषिच्य च
वसन्माल्यवतः पृष्टे रामो लक्ष्मणमब्रवीत्
Containing 46 sacred Sanskrit shlokas with multi-author commentaries and translations.
स तदा वालिनं हत्वाह्सुग्रीवमभिषिच्य च
वसन्माल्यवतः पृष्टे रामो लक्ष्मणमब्रवीत्
अयं स कालः संप्राप्तः समयोऽद्य जलागमः
संपश्य त्वं नभो मेघैः संवृतं गिरिसंनिभैः
नव मास धृतं गर्भं भास्कारस्य गभस्तिभिः
पीत्वा रसं समुद्राणां द्यौः प्रसूते रसायनम्
शक्यमम्बरमारुह्य मेघसोपानपङ्क्तिभिः
कुटजार्जुनमालाभिरलंकर्तुं दिवाकरम्
संध्यारागोत्थितैस्ताम्रैरन्तेष्वधिकपाण्डुरैः
स्निग्धैरभ्रपटच्छदैर्बद्धव्रणमिवाम्बरम्
मन्दमारुतनिःश्वासं संध्याचन्दनरञ्जितम्
आपाण्डुजलदं भाति कामातुरमिवाम्बरम्
एषा धर्मपरिक्लिष्टा नववारिपरिप्लुता
सीतेव शोकसंतप्ता मही बाष्पं विमुञ्चति
मेघोदरविनिर्मुक्ताः कह्लारसुखशीतलाः
शक्यमञ्जलिभिः पातुं वाताः केतकिगन्धिनः
एष फुल्लार्जुनः शैलः केतकैरधिवासितः
सुग्रीव इव शान्तारिर्धाराभिरभिषिच्यते
मेघकृष्णाजिनधरा धारायज्ञोपवीतिनः
मारुतापूरितगुहाः प्राधीता इव पर्वताः
कशाभिरिव हैमीभिर्विद्युद्भिरिव ताडितम्
अन्तःस्तनितनिर्घोषं सवेदनमिवाम्बरम्
नीलमेघाश्रिता विद्युत्स्फुरन्ती प्रतिभाति मे
स्फुरन्ती रावणस्याङ्के वैदेहीव तपस्विनी
इमास्ता मन्मथवतां हिताः प्रतिहता दिशः
अनुलिप्ता इव घनैर्नष्टग्रहनिशाकराः
क्वचिद्बाष्पाभिसंरुद्धान्वर्षागमसमुत्सुकान्
कुटजान्पश्य सौमित्रे पुष्टितान्गिरिसानुषु
मम शोकाभिभूतस्य कामसंदीपनान्स्थितान्
रजः प्रशान्तं सहिमोऽद्य वायु;र्निदाघदोषप्रसराः प्रशान्ताः
स्थिता हि यात्रा वसुधाधिपानां; प्रवासिनो यान्ति नराः स्वदेशान्
संप्रस्थिता मानसवासलुब्धाः; प्रियान्विताः संप्रति चक्रवाकः
अभीक्ष्णवर्षोदकविक्षतेषु; यानानि मार्गेषु न संपतन्ति
क्वचित्प्रकाशं क्वचिदप्रकाशं; नभः प्रकीर्णाम्बुधरं विभाति
क्वचित्क्वचित्पर्वतसंनिरुद्धं; रूपं यथा शान्तमहार्णवस्य
व्यामिश्रितं सर्जकदम्बपुष्पै;र्नवं जलं पर्वतधातुताम्रम्
मयूरकेकाभिरनुप्रयातं; शैलापगाः शीघ्रतरं वहन्ति
रसाकुलं षट्पदसंनिकाशं; प्रभुज्यते जम्बुफलं प्रकामम्
अनेकवर्णं पवनावधूतं; भूमौ पतत्याम्रफलं विपक्वम्
विद्युत्पताकाः सबलाक मालाः; शैलेन्द्रकूटाकृतिसंनिकाशाः
गर्जन्ति मेघाः समुदीर्णनादा; मत्तगजेन्द्रा इव संयुगस्थः
मेघाभिकामी परिसंपतन्ती; संमोदिता भाति बलाकपङ्क्तिः
वातावधूता वरपौण्डरीकी; लम्बेव माला रचिताम्बरस्य
निद्रा शनैः केशवमभ्युपैति; द्रुतं नदी सागरमभ्युपैति
हृष्टा बलाका घनमभ्युपैति; कान्ता सकामा प्रियमभ्युपैति
जाता वनान्ताः शिखिसुप्रनृत्ता; जाताः कदम्बाः सकदम्बशाखाः
जाता वृषा गोषु समानकामा; जाता मही सस्यवनाभिरामा
वहन्ति वर्षन्ति नदन्ति भान्ति; ध्यायन्ति नृत्यन्ति समाश्वसन्ति
नद्यो घना मत्तगजा वनान्ताः; प्रियाविनीहाः शिखिनः प्लवंगाः
प्रहर्षिताः केतकपुष्पगन्ध;माघ्राय हृष्टा वननिर्झरेषु
प्रपात शब्दाकुलिता गजेन्द्राः; सार्धं मयूरैः समदा नदन्ति
धारानिपातैरभिहन्यमानाः; कदम्बशाखासु विलम्बमानाः
क्षणार्जितं पुष्परसावगाढं; शनैर्मदं षट्चरणास्त्यजन्ति
अङ्गारचूर्णोत्करसंनिकाशैः; फलैः सुपर्याप्त रसैः समृद्धैः
जम्बूद्रुमाणां प्रविभान्ति शाखा; निलीयमाना इव षट्पदौघैः
तडित्पताकाभिरलंकृताना;मुदीर्णगम्भीरमहारवाणाम्
विभान्ति रूपाणि बलाहकानां; रणोद्यतानामिव वारणानाम्
मार्गानुगः शैलवनानुसारी; संप्रस्थितो मेघरवं निशम्य
युद्धाभिकामः प्रतिनागशङ्की; मत्तो गजेन्द्रः प्रतिसंनिवृत्तः
मुक्तासकाशं सलिलं पतद्वै; सुनिर्मलं पत्रपुटेषु लग्नम्
हृष्टा विवर्णच्छदना विहंगाः; सुरेन्द्रदत्तं तृषिताः पिबन्ति