Kishkindhakanda, Sarga 25, Verse 1
ततः शोकाभिसंतप्तं सुग्रीवं क्लिन्नवासनम्
शाखामृगमहामात्राः परिवार्योपतस्थिरे
Containing 38 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततः शोकाभिसंतप्तं सुग्रीवं क्लिन्नवासनम्
शाखामृगमहामात्राः परिवार्योपतस्थिरे
अभिगम्य महाबाहुं राममक्लिष्टकारिणम्
स्थिताः प्राञ्जलयः सर्वे पितामहमिवर्षयः
ततः काञ्चनशैलाभस्तरुणार्कनिभाननः
अब्रवीत्प्राञ्जलिर्वाक्यं हनुमान्मारुतात्मजः
भवत्प्रसादात्सुग्रीवः पितृपैतामहं महत्
वानराणां सुदुष्प्रापं प्राप्तो राज्यमिदं प्रभो
भवता समनुज्ञातः प्रविश्य नगरं शुभम्
संविधास्यति कार्याणि सर्वाणि ससुहृज्जनः
स्नातोऽयं विविधैर्गन्धैरौषधैश्च यथाविधि
अर्चयिष्यति रत्नैश्च माल्यैश्च त्वां विशेषतः
इमां गिरिगुहां रम्यामभिगन्तुमितोऽर्हसि
कुरुष्व स्वामि संबन्धं वानरान्संप्रहर्षयन्
एवमुक्तो हनुमता राघवः परवीरहा
प्रत्युवाच हनूमन्तं बुद्धिमान्वाक्यकोविदः
चतुर्दशसमाः सौम्य ग्रामं वा यदि वा पुरम्
न प्रवेक्ष्यामि हनुमन्पितुर्निर्देशपालकः
सुसमृद्धां गुहां दिव्यां सुग्रीवो वानरर्षभः
प्रविष्टो विधिवद्वीरः क्षिप्रं राज्येऽभिषिच्यताम्
एवमुक्त्वा हनूमन्तं रामः सुग्रीवमब्रवीत्
इममप्यङ्गदं वीर यौवराज्येऽभिषेचय
पूर्वोऽयं वार्षिको मासः श्रावणः सलिलागमः
प्रवृत्ताः सौम्य चत्वारो मासा वार्षिकसंज्ञिताः
नायमुद्योगसमयः प्रविश त्वं पुरीं शुभाम्
अस्मिन्वत्स्याम्यहं सौम्य पर्वते सहलक्ष्मणः
इयं गिरिगुहा रम्या विशाला युक्तमारुता
प्रभूतसलिला सौम्य प्रभूतकमलोत्पला
कार्तिके समनुप्राप्ते त्वं रावणवधे यत
एष नः समयः सौम्य प्रविश त्वं स्वमालयम्
अभिषिञ्चस्व राज्ये च सुहृदः संप्रहर्षय
इति रामाभ्यनुज्ञातः सुग्रीवो वानरर्षभः
प्रविवेश पुरीं रम्यां किष्किन्धां वालिपालिताम्
तं वानरसहस्राणि प्रविष्टं वानरेश्वरम्
अभिवाद्य प्रहृष्टानि सर्वतः पर्यवारयन्
ततः प्रकृतयः सर्वा दृष्ट्वा हरिगणेश्वरम्
प्रणम्य मूर्ध्ना पतिता वसुधायां समाहिताः
सुग्रीवः प्रकृतीः सर्वाः संभाष्योत्थाप्य वीर्यवान्
भ्रातुरन्तःपुरं सौम्यं प्रविवेश महाबलः
प्रविश्य त्वभिनिष्क्रान्तं सुग्रीवं वानरर्षभम्
अभ्यषिञ्चन्त सुहृदः सहस्राक्षमिवामराः
तस्य पाण्डुरमाजह्रुश्छत्रं हेमपरिष्कृतम्
शुक्ले च बालव्यजने हेमदण्डे यशस्करे
तथा सर्वाणि रत्नानि सर्वबीजौषधानि च
सक्षीराणां च वृक्षाणां प्ररोहान्कुसुमानि च
शुक्लानि चैव वस्त्राणि श्वेतं चैवानुलेपनम्
सुगन्धीनि च माल्यानि स्थलजान्यम्बुजानि च
चन्दनानि च दिव्यानि गन्धांश्च विविधान्बहून्
अक्षतं जातरूपं च प्रियङ्गुमधुसर्पिषी
दधिचर्म च वैयाघ्रं वाराही चाप्युपानहौ
समालम्भनमादाय रोचनां समनःशिलाम्
आजग्मुस्तत्र मुदिता वराः कन्यास्तु षोडश
ततस्ते वानरश्रेष्ठं यथाकालं यथाविधि
रत्नैर्वस्त्रैश्च भक्ष्यैश्च तोषयित्वा द्विजर्षभान्
ततः कुशपरिस्तीर्णं समिद्धं जातवेदसं
मन्त्रपूतेन हविषा हुत्वा मन्त्रविदो जनाः
ततो हेमप्रतिष्ठाने वरास्तरणसंवृते
प्रासादशिखरे रम्ये चित्रमाल्योपशोभिते
प्राङ्मुखं विविधैर्मन्त्रैः स्थापयित्वा वरासने
नदीनदेभ्यः संहृत्य तीर्थेभ्यश्च समन्ततः
आहृत्य च समुद्रेभ्यः सर्वेभ्यो वानरर्षभाः
अपः कनककुम्भेषु निधाय विमलाः शुभाः