Kishkindhakanda, Sarga 24, Verse 1
गतासुं वालिनं दृष्ट्वा राघवस्तदनन्तरम्
अब्रवीत्प्रश्रितं वाक्यं सुग्रीवं शत्रुतापनः
Containing 44 sacred Sanskrit shlokas with multi-author commentaries and translations.
गतासुं वालिनं दृष्ट्वा राघवस्तदनन्तरम्
अब्रवीत्प्रश्रितं वाक्यं सुग्रीवं शत्रुतापनः
न शोकपरितापेन श्रेयसा युज्यते मृतः
यदत्रानन्तरं कार्यं तत्समाधातुमर्हथ
लोकवृत्तमनुष्ठेयं कृतं वो बाष्पमोक्षणम्
न कालादुत्तरं किंचित्कर्म शक्यमुपासितुम्
नियतः कारणं लोके नियतिः कर्मसाधनम्
नियतिः सर्वभूतानां नियोगेष्विह कारणम्
न कर्ता कस्यचित्कश्चिन्नियोगे चापि नेश्वरः
स्वभावे वर्तते लोकस्तस्य कालः परायणम्
न कालः कालमत्येति न कालः परिहीयते
स्वभावं वा समासाद्य न कश्चिदतिवर्तते
न कालस्यास्ति बन्धुत्वं न हेतुर्न पराक्रमः
न मित्रज्ञातिसंबन्धः कारणं नात्मनो वशः
किं तु काल परीणामो द्रष्टव्यः साधु पश्यता
धर्मश्चार्थश्च कामश्च कालक्रमसमाहिताः
इतः स्वां प्रकृतिं वाली गतः प्राप्तः क्रियाफलम्
धर्मार्थकामसंयोगैः पवित्रं प्लवगेश्वर
स्वधर्मस्य च संयोगाज्जितस्तेन महात्मना
स्वर्गः परिगृहीतश्च प्राणानपरिरक्षता
एषा वै नियतिः श्रेष्ठा यां गतो हरियूथपः
तदलं परितापेन प्राप्तकालमुपास्यताम्
वचनान्ते तु रामस्य लक्ष्मणः परवीरहा
अवदत्प्रश्रितं वाक्यं सुग्रीवं गतचेतसं
कुरु त्वमस्य सुग्रीव प्रेतकार्यमनन्तरम्
ताराङ्गदाभ्यां सहितो वालिनो दहनं प्रति
समाज्ञापय काष्ठानि शुष्काणि च बहूनि च
चन्दनानि च दिव्यानि वालिसंस्कारकारणात्
समाश्वासय चैनं त्वमङ्गदं दीनचेतसं
मा भूर्बालिशबुद्धिस्त्वं त्वदधीनमिदं पुरम्
अङ्गदस्त्वानयेन्माल्यं वस्त्राणि विविधानि च
घृतं तैलमथो गन्धान्यच्चात्र समनन्तरम्
त्वं तार शिबिकां शीघ्रमादायागच्छ संभ्रमात्
त्वरा गुणवती युक्ता ह्यस्मिन्काले विशेषतः
सज्जीभवन्तु प्लवगाः शिबिकावाहनोचिताः
समर्था बलिनश्चैव निर्हरिष्यन्ति वालिनम्
एवमुक्त्वा तु सुग्रीवं सुमित्रानन्दवर्धनः
तस्थौ भ्रातृसमीपस्थो लक्ष्मणः परवीरहा
लक्ष्मणस्य वचः श्रुत्वा तारः संभ्रान्तमानसः
प्रविवेश गुहां शीघ्रं शिबिकासक्तमानसः
आदाय शिबिकां तारः स तु पर्यापयत्पुनः
वानरैरुह्यमानां तां शूरैरुद्वहनोचितैः
ततो वालिनमुद्यम्य सुग्रीवः शिबिकां तदा
आरोपयत विक्रोशन्नङ्गदेन सहैव तु
आरोप्य शिबिकां चैव वालिनं गतजीवितम्
अलंकारैश्च विविधैर्माल्यैर्वस्त्रैश्च भूषितम्
आज्ञापयत्तदा राजा सुग्रीवः प्लवगेश्वरः
और्ध्वदेहिकमार्यस्य क्रियतामनुरूपतः
विश्राणयन्तो रत्नानि विविधानि बहूनि च
अग्रतः प्लवगा यान्तु शिबिका तदनन्तरम्
राज्ञामृद्धिविशेषा हि दृश्यन्ते भुवि यादृशाः
तादृशं वालिनः क्षिप्रं प्राकुर्वन्नौर्ध्वदेहिकम्
अङ्गदमप्रिगृह्याशु तारप्रभृतयस्तथा
क्रोशन्तः प्रययुः सर्वे वानरा हतबान्धवाः
ताराप्रभृतयः सर्वा वानर्यो हतयूथपाः
अनुजग्मुर्हि भर्तारं क्रोशन्त्यः करुणस्वनाः
तासां रुदितशब्देन वानरीणां वनान्तरे
वनानि गिरयः सर्वे विक्रोशन्तीव सर्वतः
पुलिने गिरिनद्यास्तु विविक्ते जलसंवृते
चितां चक्रुः सुबहवो वानरा वनचारिणः