Kishkindhakanda, Sarga 20, Verse 1
रामचापविसृष्टेन शरेणान्तकरेण तम्
दृष्ट्वा विनिहतं भूमौ तारा ताराधिपानना
Containing 25 sacred Sanskrit shlokas with multi-author commentaries and translations.
रामचापविसृष्टेन शरेणान्तकरेण तम्
दृष्ट्वा विनिहतं भूमौ तारा ताराधिपानना
सा समासाद्य भर्तारं पर्यष्वजत भामिनी
इषुणाभिहतं दृष्ट्वा वालिनं कुञ्जरोपमम्
वानरेन्द्रं महेन्द्राभं शोकसंतप्तमानसा
तारा तरुमिवोन्मूलं पर्यदेवयदातुरा
रणे दारुणविक्रान्त प्रवीर प्लवतां वर
किं दीनामपुरोभागामद्य त्वं नाभिभाषसे
उत्तिष्ठ हरिशार्दूल भजस्व शयनोत्तमम्
नैवंविधाः शेरते हि भूमौ नृपतिसत्तमाः
अतीव खलु ते कान्ता वसुधा वसुधाधिप
गतासुरपि यां गात्रैर्मां विहाय निषेवसे
व्यक्तमन्या त्वया वीर धर्मतः संप्रवर्तता
किष्किन्धेव पुरी रम्या स्वर्गमार्गे विनिर्मिता
यान्यस्माभिस्त्वया सार्धं वनेषु मधुगन्धिषु
विहृतानि त्वया काले तेषामुपरमः कृतः
निरानन्दा निराशाहं निमग्ना शोकसागरे
त्वयि पञ्चत्वमापन्ने महायूथपयूथपे
हृदयं सुस्थिरं मह्यं दृष्ट्वा विनिहतं भुवि
यन्न शोकाभिसंतप्तं स्फुटतेऽद्य सहस्रधा
सुग्रीवस्य त्वया भार्या हृता स च विवासितः
यत्तत्तस्य त्वया व्युष्टिः प्राप्तेयं प्लवगाधिप
निःश्रेयसपरा मोहात्त्वया चाहं विगर्हिता
यैषाब्रुवं हितं वाक्यं वानरेन्द्रहितैषिणी
कालो निःसंशयो नूनं जीवितान्तकरस्तव
बलाद्येनावपन्नोऽसि सुग्रीवस्यावशो वशम्
वैधव्यं शोकसंतापं कृपणं कृपणा सती
अदुःखोपचिता पूर्वं वर्तयिष्याम्यनाथवत्
लालितश्चाङ्गदो वीरः सुकुमारः सुखोचितः
वत्स्यते कामवस्थां मे पितृव्ये क्रोधमूर्छिते
कुरुष्व पितरं पुत्र सुदृष्टं धर्मवत्सलम्
दुर्लभं दर्शनं त्वस्य तव वत्स भविष्यति
समाश्वासय पुत्रं त्वं संदेशं संदिशस्व च
मूर्ध्नि चैनं समाघ्राय प्रवासं प्रस्थितो ह्यसि
रामेण हि महत्कर्म कृतं त्वामभिनिघ्नता
आनृण्यं तु गतं तस्य सुग्रीवस्य प्रतिश्रवे
सकामो भव सुग्रीव रुमां त्वं प्रतिपत्स्यसे
भुङ्क्ष्व राज्यमनुद्विग्नः शस्तो भ्राता रिपुस्तव
किं मामेवं विलपतीं प्रेंणा त्वं नाभिभाषसे
इमाः पश्य वरा बह्वीर्भार्यास्ते वानरेश्वर
तस्या विलपितं श्रुत्वा वानर्यः सर्वतश्च ताः
परिगृह्याङ्गदं दीनं दुःखार्ताः परिचुक्रुशुः
किमङ्गदं साङ्गद वीर बाहो; विहाय यास्यद्य चिरप्रवासं
न युक्तमेवं गुणसंनिकृष्टं; विहाय पुत्रं प्रियपुत्र गन्तुम्
किमप्रियं ते प्रियचारुवेष; कृतं मया नाथ सुतेन वा ते
सहायिनीमद्य विहाय वीर; यमक्षयं गच्छसि दुर्विनीतम्
यद्यप्रियं किंचिदसंप्रधार्य; कृतं मया स्यात्तव दीर्घबाहो
क्षमस्व मे तद्धरिवंश नाथ; व्रजामि मूर्ध्ना तव वीर पादौ
तथा तु तारा करुणं रुदन्ती; भर्तुः समीपे सह वानरीभिः
व्यवस्यत प्रायमनिन्द्यवर्णा; उपोपवेष्टुं भुवि यत्र वाली