Kishkindhakanda, Sarga 17, Verse 1
ततः शरेणाभिहतो रामेण रणकर्कशः
पपात सहसा वाली निकृत्त इव पादपः
Containing 45 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततः शरेणाभिहतो रामेण रणकर्कशः
पपात सहसा वाली निकृत्त इव पादपः
स भूमौ न्यस्तसर्वाङ्गस्तप्तकाञ्चनभूषणः
अपतद्देवराजस्य मुक्तरश्मिरिव ध्वजः
तस्मिन्निपतिते भूमौ हर्यृषाणां गणेश्वरे
नष्टचन्द्रमिव व्योम न व्यराजत भूतलम्
भूमौ निपतितस्यापि तस्य देहं महात्मनः
न श्रीर्जहाति न प्राणा न तेजो न पराक्रमः
शक्रदत्ता वरा माला काञ्चनी रत्नभूषिता
दधार हरिमुख्यस्य प्राणांस्तेजः श्रियं च सा
स तया मालया वीरो हैमया हरियूथपः
संध्यानुगतपर्यन्तः पयोधर इवाभवत्
तस्य माला च देहश्च मर्मघाती च यः शरः
त्रिधेव रचिता लक्ष्मीः पतितस्यापि शोभते
तदस्त्रं तस्य वीरस्य स्वर्गमार्गप्रभावनम्
रामबाणासनक्षिप्तमावहत्परमां गतिम्
तं तथा पतितं संख्ये गतार्चिषमिवानलम्
ययातिमिव पुण्यान्ते देवलोकात्परिच्युतम्
आदित्यमिव कालेन युगान्ते भुवि पातितम्
महेन्द्रमिव दुर्धर्षं महेन्द्रमिव दुःसहम्
महेन्द्रपुत्रं पतितं वालिनं हेममालिनम्
सिंहोरस्कं महाबाहुं दीप्तास्यं हरिलोचनम्
लक्ष्मणानुगतो रामो ददर्शोपससर्प च
स दृष्ट्वा राघवं वाली लक्ष्मणं च महाबलम्
अब्रवीत्प्रश्रितं वाक्यं परुषं धर्मसंहितम्
पराङ्मुखवधं कृत्वा को नु प्राप्तस्त्वया गुणः
यदहं युद्धसंरब्धस्त्वत्कृते निधनं गतः
कुलीनः सत्त्वसंपन्नस्तेजस्वी चरितव्रतः
रामः करुणवेदी च प्रजानां च हिते रतः
सानुक्रोशो महोत्साहः समयज्ञो दृढव्रतः
इति ते सर्वभूतानि कथयन्ति यशो भुवि
तान्गुणान्संप्रधार्याहमग्र्यं चाभिजनं तव
तारया प्रतिषिद्धः सन्सुग्रीवेण समागतः
न मामन्येन संरब्धं प्रमत्तं वेद्धुमर्हसि
इति मे बुद्धिरुत्पन्ना बभूवादर्शने तव
न त्वां विनिहतात्मानं धर्मध्वजमधार्मिकम्
जाने पापसमाचारं तृणैः कूपमिवावृतम्
सतां वेषधरं पापं प्रच्छन्नमिव पावकम्
नाहं त्वामभिजानानि धर्मच्छद्माभिसंवृतम्
विषये वा पुरे वा ते यदा नापकरोम्यहम्
न च त्वां प्रतिजानेऽहं कस्मात्त्वं हंस्यकिल्बिषम्
फलमूलाशनं नित्यं वानरं वनगोचरम्
मामिहाप्रतियुध्यन्तमन्येन च समागतम्
त्वं नराधिपतेः पुत्रः प्रतीतः प्रियदर्शनः
लिङ्गमप्यस्ति ते राजन्दृश्यते धर्मसंहितम्
कः क्षत्रियकुले जातः श्रुतवान्नष्टसंशयः
धर्मलिङ्ग प्रतिच्छन्नः क्रूरं कर्म समाचरेत्
राम राजकुले जातो धर्मवानिति विश्रुतः
अभव्यो भव्यरूपेण किमर्थं परिधावसि
साम दानं क्षमा धर्मः सत्यं धृतिपराक्रमौ
पार्थिवानां गुणा राजन्दण्डश्चाप्यपकारिषु
वयं वनचरा राम मृगा मूलफलाशनाः
एषा प्रकृतिरस्माकं पुरुषस्त्वं नरेश्वरः
भूमिर्हिरण्यं रूप्यं च निग्रहे कारणानि च
तत्र कस्ते वने लोभो मदीयेषु फलेषु वा
नयश्च विनयश्चोभौ निग्रहानुग्रहावपि
राजवृत्तिरसंकीर्णा न नृपाः कामवृत्तयः
त्वं तु कामप्रधानश्च कोपनश्चानवस्थितः
राजवृत्तैश्च संकीर्णः शरासनपरायणः
न तेऽस्त्यपचितिर्धर्मे नार्थे बुद्धिरवस्थिता
इन्द्रियैः कामवृत्तः सन्कृष्यसे मनुजेश्वर