Kishkindhakanda, Sarga 16, Verse 1
तामेवं ब्रुवतीं तारां ताराधिपनिभाननाम्
वाली निर्भर्त्सयामास वचनं चेदमब्रवीत्
Containing 27 sacred Sanskrit shlokas with multi-author commentaries and translations.
तामेवं ब्रुवतीं तारां ताराधिपनिभाननाम्
वाली निर्भर्त्सयामास वचनं चेदमब्रवीत्
गर्जतोऽस्य च संरम्भं भ्रातुः शत्रोर्विशेषतः
मर्षयिष्याम्यहं केन कारणेन वरानने
अधर्षितानां शूराणां समरेष्वनिवर्तिनाम्
धर्षणामर्षणं भीरु मरणादतिरिच्यते
सोढुं न च समर्थोऽहं युद्धकामस्य संयुगे
सुग्रीवस्य च संरम्भं हीनग्रीवस्य गर्जतः
न च कार्यो विषादस्ते राघवं प्रति मत्कृते
धर्मज्ञश्च कृतज्ञश्च कथं पापं करिष्यति
निवर्तस्व सह स्त्रीभिः कथं भूयोऽनुगच्छसि
सौहृदं दर्शितं तारे मयि भक्तिः कृता त्वया
प्रतियोत्स्याम्यहं गत्वा सुग्रीवं जहि संभ्रमम्
दर्पं चास्य विनेष्यामि न च प्राणैर्विमोक्ष्यते
शापितासि मम प्राणैर्निवर्तस्व जयेन च
अहं जित्वा निवर्तिष्ये तमलं भ्रातरं रणे
तं तु तारा परिष्वज्य वालिनं प्रियवादिनी
चकार रुदती मन्दं दक्षिणा सा प्रदक्षिणम्
ततः स्वस्त्ययनं कृत्वा मन्त्रवद्विजयैषिणी
अन्तःपुरं सह स्त्रीभिः प्रविष्टा शोकमोहिता
प्रविष्टायां तु तारायां सह स्त्रीभिः स्वमालयम्
नगरान्निर्ययौ क्रुद्धो महासर्प इव श्वसन्
स निःश्वस्य महावेगो वाली परमरोषणः
सर्वतश्चारयन्दृष्टिं शत्रुदर्शनकाङ्क्षया
स ददर्श ततः श्रीमान्सुग्रीवं हेमपिङ्गलम्
सुसंवीतमवष्टब्धं दीप्यमानमिवानलम्
स तं दृष्ट्वा महावीर्यं सुग्रीवं पर्यवस्थितम्
गाढं परिदधे वासो वाली परमरोषणः
स वाली गाढसंवीतो मुष्टिमुद्यम्य वीर्यवान्
सुग्रीवमेवाभिमुखो ययौ योद्धुं कृतक्षणः
श्लिष्टमुष्टिं समुद्यम्य संरब्धतरमागतः
सुग्रीवोऽपि समुद्दिश्य वालिनं हेममालिनम्
तं वाली क्रोधताम्राक्षः सुग्रीवं रणपण्डितम्
आपतन्तं महावेगमिदं वचनमब्रवीत्
एष मुष्टिर्मया बद्धो गाढः सुनिहिताङ्गुलिः
मया वेगविमुक्तस्ते प्राणानादाय यास्यति
एवमुक्तस्तु सुग्रीवः क्रुद्धो वालिनमब्रवीत्
तवैव च हरन्प्राणान्मुष्टिः पततु मूर्धनि
ताडितस्तेन संक्रुद्धः समभिक्रम्य वेगतः
अभवच्छोणितोद्गारी सोत्पीड इव पर्वतः
सुग्रीवेण तु निःसंगं सालमुत्पाट्य तेजसा
गात्रेष्वभिहतो वाली वज्रेणेव महागिरिः
स तु वाली प्रचरितः सालताडनविह्वलः
गुरुभारसमाक्रान्ता सागरे नौरिवाभवत्
तौ भीमबलविक्रान्तौ सुपर्णसमवेगिनौ
प्रवृद्धौ घोरवपुषौ चन्द्रसूर्याविवाम्बरे
वालिना भग्नदर्पस्तु सुग्रीवो मन्दविक्रमः
वालिनं प्रति सामर्षो दर्शयामास लाघवम्
ततो धनुषि संधाय शरमाशीविषोपमम्
राघवेण महाबाणो वालिवक्षसि पातितः
वेगेनाभिहतो वाली निपपात महीतले
अथोक्षितः शोणिततोयविस्रवैः; सुपुष्पिताशोक इवानिलोद्धतः
विचेतनो वासवसूनुराहवे; प्रभ्रंशितेन्द्रध्वजवत्क्षितिं गतः