Kishkindhakanda, Sarga 14, Verse 1
सर्वे ते त्वरितं गत्वा किष्किन्धां वालिपालिताम्
वृक्षैरात्मानमावृत्य व्यतिष्ठन्गहने वने
Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.
सर्वे ते त्वरितं गत्वा किष्किन्धां वालिपालिताम्
वृक्षैरात्मानमावृत्य व्यतिष्ठन्गहने वने
विचार्य सर्वतो दृष्टिं कानने काननप्रियः
सुग्रीवो विपुलग्रीवः क्रोधमाहारयद्भृशम्
ततः स निनदं घोरं कृत्वा युद्धाय चाह्वयत्
परिवारैः परिवृतो नादैर्भिन्दन्निवाम्बरम्
अथ बालार्कसदृशो दृप्तसिंहगतिस्तदा
दृष्ट्वा रामं क्रियादक्षं सुग्रीवो वाक्यमब्रवीत्
हरिवागुरया व्याप्तं तप्तकाञ्चनतोरणाम्
प्राप्ताः स्म ध्वजयन्त्राढ्यां किष्किन्धां वालिनः पुरीम्
प्रतिज्ञा या त्वया वीर कृता वालिवधे पुरा
सफलां तां कुरु क्षिप्रं लतां काल इवागतः
एवमुक्तस्तु धर्मात्मा सुग्रीवेण स राघवः
तमथोवाच सुग्रीवं वचनं शत्रुसूदनः
कृताभिज्ञान चिह्नस्त्वमनया गजसाह्वया
विपरीत इवाकाशे सूर्यो नक्षत्र मालया
अद्य वालिसमुत्थं ते भयं वैरं च वानर
एकेनाहं प्रमोक्ष्यामि बाणमोक्षेण संयुगे
मम दर्शय सुग्रीववैरिणं भ्रातृरूपिणम्
वाली विनिहतो यावद्वने पांसुषु वेष्टते
यदि दृष्टिपथं प्राप्तो जीवन्स विनिवर्तते
ततो दोषेण मा गच्छेत्सद्यो गर्हेच्च मा भवान्
प्रत्यक्षं सप्त ते साला मया बाणेन दारिताः
ततो वेत्सि बलेनाद्य बालिनं निहतं मया
अनृतं नोक्तपूर्वं मे वीर कृच्छ्रेऽपि तिष्ठता
धर्मलोभपरीतेन न च वक्ष्ये कथंचन
सफलां च करिष्यामि प्रतिज्ञां जहि संभ्रमम्
प्रसूतं कलमं क्षेत्रे वर्षेणेव शतक्रतुः
तदाह्वाननिमित्तं त्वं वालिनो हेममालिनः
सुग्रीव कुरु तं शब्दं निष्पतेद्येन वानरः
जितकाशी जयश्लाघी त्वया चाधर्षितः पुरात्
निष्पतिष्यत्यसंगेन वाली स प्रियसंयुगः
रिपूणां धर्षणं शूरा मर्षयन्ति न संयुगे
जानन्तस्तु स्वकं वीर्यं स्त्रीसमक्षं विशेषतः
स तु रामवचः श्रुत्वा सुग्रीवो हेमपिङ्गलः
ननर्द क्रूरनादेन विनिर्भिन्दन्निवाम्बरम्
तस्य शब्देन वित्रस्ता गावो यान्ति हतप्रभाः
राजदोषपरामृष्टाः कुलस्त्रिय इवाकुलाः
द्रवन्ति च मृगाः शीघ्रं भग्ना इव रणे हयाः
पतन्ति च खगा भूमौ क्षीणपुण्या इव ग्रहाः
ततः स जीमूतगणप्रणादो; नादं व्यमुञ्चत्त्वरया प्रतीतः
सूर्यात्मजः शौर्यविवृद्धतेजाः; सरित्पतिर्वानिलचञ्चलोर्मिः