Kishkindhakanda, Sarga 13, Verse 1
ऋश्यमूकात्स धर्मात्मा किष्किन्धां लक्ष्मणाग्रजः
जगाम सहसुग्रीवो वालिविक्रमपालिताम्
Containing 27 sacred Sanskrit shlokas with multi-author commentaries and translations.
ऋश्यमूकात्स धर्मात्मा किष्किन्धां लक्ष्मणाग्रजः
जगाम सहसुग्रीवो वालिविक्रमपालिताम्
समुद्यम्य महच्चापं रामः काञ्चनभूषितम्
शरांश्चादित्य संकाशान्गृहीत्वा रणसाधकान्
अग्रतस्तु ययौ तस्य राघवस्य महात्मनः
सुग्रीवः संहतग्रीवो लक्ष्मणश्च महाबलः
पृष्ठतो हनुमान्वीरो नलो नीलश्च वानरः
तारश्चैव महातेजा हरियूथप यूथपाः
ते वीक्षमाणा वृक्षांश्च पुष्पभारावलम्बिनः
प्रसन्नाम्बुवहाश्चैव सरितः सागरं गमाः
कन्दराणि च शैलांश्च निर्झराणि गुहास्तथा
शिखराणि च मुख्यानि दरीश्च प्रियदर्शनाः
वैदूर्यविमलैः पर्णैः पद्मैश्चाकाशकुड्मलैः
शोभितान्सजलान्मार्गे तटाकांश्च व्यलोकयन्
कारण्डैः सारसैर्हंसैर्वञ्जूलैर्जलकुक्कुटैः
चक्रवाकैस्तथा चान्यैः शकुनैः प्रतिनादितान्
मृदुशष्पाङ्कुराहारान्निर्भयान्वनगोचरान्
चरतः सर्वतोऽपश्यन्स्थलीषु हरिणान्स्थितान्
तटाकवैरिणश्चापि शुक्लदन्तविभूषितान्
घोरानेकचरान्वन्यान्द्विरदान्कूलघातिनः
वने वनचरांश्चान्यान्खेचरांश्च विहंगमान्
पश्यन्तस्त्वरिता जग्मुः सुग्रीववशवर्तिनः
तेषां तु गच्छतां तत्र त्वरितं रघुनन्दनः
द्रुमषण्डं वनं दृष्ट्वा रामः सुग्रीवमब्रवीत्
एष मेघ इवाकाशे वृक्षषण्डः प्रकाशते
मेघसंघातविपुलः पर्यन्तकदलीवृतः
किमेतज्ज्ञातुमिच्छामि सखे कौतूहलं मम
कौतूहलापनयनं कर्तुमिच्छाम्यहं त्वया
तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः
गच्छन्नेवाचचक्षेऽथ सुग्रीवस्तन्महद्वनम्
एतद्राघव विस्तीर्णमाश्रमं श्रमनाशनम्
उद्यानवनसंपन्नं स्वादुमूलफलोदकम्
अत्र सप्तजना नाम मुनयः संशितव्रताः
सप्तैवासन्नधःशीर्षा नियतं जलशायिनः
सप्तरात्रकृताहारा वायुना वनवासिनः
दिवं वर्षशतैर्याताः सप्तभिः सकलेवराः
तेषामेवं प्रभावेन द्रुमप्राकारसंवृतम्
आश्रमं सुदुराधर्षमपि सेन्द्रैः सुरासुरैः
पक्षिणो वर्जयन्त्येतत्तथान्ये वनचारिणः
विशन्ति मोहाद्येऽप्यत्र निवर्तन्ते न ते पुनः
विभूषणरवाश्चात्र श्रूयन्ते सकलाक्षराः
तूर्यगीतस्वनाश्चापि गन्धो दिव्यश्च राघव
त्रेताग्नयोऽपि दीप्यन्ते धूमो ह्येष प्रदृश्यते
वेष्टयन्निव वृक्षाग्रान्कपोताङ्गारुणो घनः
कुरु प्रणामं धर्मात्मंस्तान्समुद्दिश्य राघवः
लक्ष्मणेन सह भ्रात्रा प्रयतः संयताञ्जलिः
प्रणमन्ति हि ये तेषामृषीणां भावितात्मनाम्
न तेषामशुभं किंचिच्छरीरे राम दृश्यते
ततो रामः सह भ्रात्रा लक्ष्मणेन कृताञ्जलिः
समुद्दिश्य महात्मानस्तानृषीनभ्यवादयत्
अभिवाद्य च धर्मात्मा रामो भ्राता च लक्ष्मणः
सुग्रीवो वानराश्चैव जग्मुः संहृष्टमानसाः
ते गत्वा दूरमध्वानं तस्मात्सप्तजनाश्रमात्
ददृशुस्तां दुराधर्षां किष्किन्धां वालिपालिताम्