Kishkindhakanda, Sarga 12, Verse 1
एतच्च वचनं श्रुत्वा सुग्रीवेण सुभाषितम्
प्रत्ययार्थं महातेजा रामो जग्राह कार्मुकम्
Containing 38 sacred Sanskrit shlokas with multi-author commentaries and translations.
एतच्च वचनं श्रुत्वा सुग्रीवेण सुभाषितम्
प्रत्ययार्थं महातेजा रामो जग्राह कार्मुकम्
स गृहीत्वा धनुर्घोरं शरमेकं च मानदः
सालानुद्दिश्य चिक्षेप ज्यास्वनैः पूरयन्दिशः
स विसृष्टो बलवता बाणः स्वर्णपरिष्कृतः
भित्त्वा सालान्गिरिप्रस्थे सप्त भूमिं विवेश ह
प्रविष्टस्तु मुहूर्तेन रसां भित्त्वा महाजवः
निष्पत्य च पुनस्तूर्णं स्वतूणीं प्रविवेश ह
तान्दृष्ट्वा सप्त निर्भिन्नान्सालान्वानरपुंगवः
रामस्य शरवेगेन विस्मयं परमं गतः
स मूर्ध्ना न्यपतद्भूमौ प्रलम्बीकृतभूषणः
सुग्रीवः परमप्रीतो राघवाय कृताञ्जलिः
इदं चोवाच धर्मज्ञं कर्मणा तेन हर्षितः
रामं सर्वास्त्रविदुषां श्रेष्ठं शूरमवस्थितम्
सेन्द्रानपि सुरान्सर्वांस्त्वं बाणैः पुरुषर्षभ
समर्थः समरे हन्तुं किं पुनर्वालिनं प्रभो
येन सप्त महासाला गिरिर्भूमिश्च दारिताः
बाणेनैकेन काकुत्स्थ स्थाता ते को रणाग्रतः
अद्य मे विगतः शोकः प्रीतिरद्य परा मम
सुहृदं त्वां समासाद्य महेन्द्रवरुणोपमम्
तमद्यैव प्रियार्थं मे वैरिणं भ्रातृरूपिणम्
वालिनं जहि काकुत्स्थ मया बद्धोऽयमञ्जलिः
ततो रामः परिष्वज्य सुग्रीवं प्रियदर्शनम्
प्रत्युवाच महाप्राज्ञो लक्ष्मणानुमतं वचः
अस्माद्गच्छाम किष्किन्धां क्षिप्रं गच्छ त्वमग्रतः
गत्वा चाह्वय सुग्रीव वालिनं भ्रातृगन्धिनम्
सर्वे ते त्वरितं गत्वा किष्किन्धां वालिनः पुरीम्
वृक्षैरात्मानमावृत्य व्यतिष्ठन्गहने वने
सुग्रीवो व्यनदद्घोरं वालिनो ह्वानकारणात्
गाढं परिहितो वेगान्नादैर्भिन्दन्निवाम्बरम्
तं श्रुत्वा निनदं भ्रातुः क्रुद्धो वाली महाबलः
निष्पपात सुसंरब्धो भास्करोऽस्ततटादिव
ततः सुतुमुलं युद्धं वालिसुग्रीवयोरभूत्
गगने ग्रहयोर्घोरं बुधाङ्गारकयोरिव
तलैरशनिकल्पैश्च वज्रकल्पैश्च मुष्टिभिः
जघ्नतुः समरेऽन्योन्यं भ्रातरौ क्रोधमूर्छितौ
ततो रामो धनुष्पाणिस्तावुभौ समुदीक्ष्य तु
अन्योन्यसदृशौ वीरावुभौ देवाविवाश्विनौ
यन्नावगच्छत्सुग्रीवं वालिनं वापि राघवः
ततो न कृतवान्बुद्धिं मोक्तुमन्तकरं शरम्
एतस्मिन्नन्तरे भग्नः सुग्रीवस्तेन वालिना
अपश्यन्राघवं नाथमृश्यमूकं प्रदुद्रुवे
क्लान्तो रुधिरसिक्ताङ्गः प्रहारैर्जर्जरीकृतः
वालिनाभिद्रुतः क्रोधात्प्रविवेश महावनम्
तं प्रविष्टं वनं दृष्ट्वा वाली शापभयात्ततः
मुक्तो ह्यसि त्वमित्युक्त्वा स निवृत्तो महाबलः
राघवोऽपि सह भ्रात्रा सह चैव हनूमता
तदेव वनमागच्छत्सुग्रीवो यत्र वानरः
तं समीक्ष्यागतं रामं सुग्रीवः सहलक्ष्मणम्
ह्रीमान्दीनमुवाचेदं वसुधामवलोकयन्
आह्वयस्वेति मामुक्त्वा दर्शयित्वा च विक्रमम्
वैरिणा घातयित्वा च किमिदानीं त्वया कृतम्
तामेव वेलां वक्तव्यं त्वया राघव तत्त्वतः
वालिनं न निहन्मीति ततो नाहमितो व्रजे
तस्य चैवं ब्रुवाणस्य सुग्रीवस्य महात्मनः
करुणं दीनया वाचा राघवः पुनरब्रवीत्
सुग्रीव श्रूयतां तातः क्रोधश्च व्यपनीयताम्
कारणं येन बाणोऽयं न मया स विसर्जितः
अलंकारेण वेषेण प्रमाणेन गतेन च
त्वं च सुग्रीव वाली च सदृशौ स्थः परस्परम्