Kishkindhakanda, Sarga 11, Verse 1
रामस्य वचनं श्रुत्वा हर्षपौरुषवर्धनम्
सुग्रीवः पूजयां चक्रे राघवं प्रशशंस च
Containing 52 sacred Sanskrit shlokas with multi-author commentaries and translations.
रामस्य वचनं श्रुत्वा हर्षपौरुषवर्धनम्
सुग्रीवः पूजयां चक्रे राघवं प्रशशंस च
असंशयं प्रज्वलितैस्तीक्ष्णैर्मर्मातिगैः शरैः
त्वं दहेः कुपितो लोकान्युगान्त इव भास्करः
वालिनः पौरुषं यत्तद्यच्च वीर्यं धृतिश्च या
तन्ममैकमनाः श्रुत्वा विधत्स्व यदनन्तरम्
समुद्रात्पश्चिमात्पूर्वं दक्षिणादपि चोत्तरम्
क्रामत्यनुदिते सूर्ये वाली व्यपगतक्लमः
अग्राण्यारुह्य शैलानां शिखराणि महान्त्यपि
ऊर्ध्वमुत्क्षिप्य तरसा प्रतिगृह्णाति वीर्यवान्
बहवः सारवन्तश्च वनेषु विविधा द्रुमाः
वालिना तरसा भग्ना बलं प्रथयतात्मनः
महिषो दुन्दुभिर्नाम कैलासशिखरप्रभः
बलं नागसहस्रस्य धारयामास वीर्यवान्
वीर्योत्सेकेन दुष्टात्मा वरदानाच्च मोहितः
जगाम स महाकायः समुद्रं सरितां पतिम्
ऊर्मिमन्तमतिक्रम्य सागरं रत्नसंचयम्
मम युद्धं प्रयच्छेति तमुवाच महार्णवम्
ततः समुद्रो धर्मात्मा समुत्थाय महाबलः
अब्रवीद्वचनं राजन्नसुरं कालचोदितम्
समर्थो नास्मि ते दातुं युद्धं युद्धविशारद
श्रूयतामभिधास्यामि यस्ते युद्धं प्रदास्यति
शैलराजो महारण्ये तपस्विशरणं परम्
शंकरश्वशुरो नाम्ना हिमवानिति विश्रुतः
गुहा प्रस्रवणोपेतो बहुकन्दरनिर्झरः
स समर्थस्तव प्रीतिमतुलां कर्तुमाहवे
तं भीतमिति विज्ञाय समुद्रमसुरोत्तमः
हिमवद्वनमागच्छच्छरश्चापादिव च्युतः
ततस्तस्य गिरेः श्वेता गजेन्द्रविपुलाः शिलाः
चिक्षेप बहुधा भूमौ दुन्दुभिर्विननाद च
ततः श्वेताम्बुदाकारः सौम्यः प्रीतिकराकृतिः
हिमवानब्रवीद्वाक्यं स्व एव शिखरे स्थितः
क्लेष्टुमर्हसि मां न त्वं दुन्दुभे धर्मवत्सल
रणकर्मस्वकुशलस्तपस्विशरणं ह्यहम्
तस्य तद्वचनं श्रुत्वा गिरिराजस्य धीमतः
उवाच दुन्दुभिर्वाक्यं क्रोधात्संरक्तलोचनः
यदि युद्धेऽसमर्थस्त्वं मद्भयाद्वा निरुद्यमः
तमाचक्ष्व प्रदद्यान्मे योऽद्य युद्धं युयुत्सतः
हिमवानब्रवीद्वाक्यं श्रुत्वा वाक्यविशारदः
अनुक्तपूर्वं धर्मात्मा क्रोधात्तमसुरोत्तमम्
वाली नाम महाप्राज्ञः शक्रतुल्यपराक्रमः
अध्यास्ते वानरः श्रीमान्किष्किन्धामतुलप्रभाम्
स समर्थो महाप्राज्ञस्तव युद्धविशारदः
द्वन्द्वयुद्धं महद्दातुं नमुचेरिव वासवः
तं शीघ्रमभिगच्छ त्वं यदि युद्धमिहेच्छसि
स हि दुर्धर्षणो नित्यं शूरः समरकर्मणि
श्रुत्वा हिमवतो वाक्यं क्रोधाविष्टः स दुन्दुभिः
जगाम तां पुरीं तस्य किष्किन्धां वालिनस्तदा
धारयन्माहिषं रूपं तीक्ष्णशृङ्गो भयावहः
प्रावृषीव महामेघस्तोयपूर्णो नभस्तले
ततस्तु द्वारमागम्य किष्किन्धाया महाबलः
ननर्द कम्पयन्भूमिं दुन्दुभिर्दुन्दुभिर्यथा
समीपजान्द्रुमान्भञ्जन्वसुधां दारयन्खुरैः
विषाणेनोल्लेखन्दर्पात्तद्द्वारं द्विरदो यथा
अन्तःपुरगतो वाली श्रुत्वा शब्दममर्षणः
निष्पपात सह स्त्रीभिस्ताराभिरिव चन्द्रमाः
मितं व्यक्ताक्षरपदं तमुवाच स दुन्दुभिम्
हरीणामीश्वरो वाली सर्वेषां वनचारिणाम्
किमर्थं नगरद्वारमिदं रुद्ध्वा विनर्दसि
दुन्दुभे विदितो मेऽसि रक्ष प्राणान्महाबल