Kishkindhakanda, Sarga 10, Verse 1
ततः क्रोधसमाविष्टं संरब्धं तमुपागतम्
अहं प्रसादयां चक्रे भ्रातरं प्रियकाम्यया
Containing 29 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततः क्रोधसमाविष्टं संरब्धं तमुपागतम्
अहं प्रसादयां चक्रे भ्रातरं प्रियकाम्यया
दिष्ट्यासि कुशली प्राप्तो निहतश्च त्वया रिपुः
अनाथस्य हि मे नाथस्त्वमेकोऽनाथनन्दनः
इदं बहुशलाकं ते पूर्णचन्द्रमिवोदितम्
छत्रं सवालव्यजनं प्रतीच्छस्व मयोद्यतम्
त्वमेव राजा मानार्हः सदा चाहं यथापुरा
न्यासभूतमिदं राज्यं तव निर्यातयाम्यहम्
मा च रोषं कृथाः सौम्य मयि शत्रुनिबर्हण
याचे त्वां शिरसा राजन्मया बद्धोऽयमञ्जलिः
बलादस्मि समागम्य मन्त्रिभिः पुरवासिभिः
राजभावे नियुक्तोऽहं शून्यदेशजिगीषया
स्निग्धमेवं ब्रुवाणं मां स तु निर्भर्त्स्य वानरः
धिक्त्वामिति च मामुक्त्वा बहु तत्तदुवाच ह
प्रकृतीश्च समानीय मन्त्रिणश्चैव संमतान्
मामाह सुहृदां मध्ये वाक्यं परमगर्हितम्
विदितं वो यथा रात्रौ मायावी स महासुरः
मां समाह्वयत क्रूरो युद्धाकाङ्क्षी सुदुर्मतिः
तस्य तद्गर्जितं श्रुत्वा निःसृतोऽहं नृपालयात्
अनुयातश्च मां तूर्णमयं भ्राता सुदारुणः
स तु दृष्ट्वैव मां रात्रौ सद्वितीयं महाबलः
प्राद्रवद्भयसंत्रस्तो वीक्ष्यावां तमनुद्रुतौ
अनुद्रुतस्तु वेगेन प्रविवेश महाबिलम्
तं प्रविष्टं विदित्वा तु सुघोरं सुमहद्बिलम्
अयमुक्तोऽथ मे भ्राता मया तु क्रूरदर्शनः
अहत्वा नास्ति मे शक्तिः प्रतिगन्तुमितः पुरीम्
बिलद्वारि प्रतीक्ष त्वं यावदेनं निहन्म्यहम्
स्थितोऽयमिति मत्वा तु प्रविष्टोऽहं दुरासदम्
तं च मे मार्गमाणस्य गतः संवत्सरस्तदा
स तु दृष्टो मया शत्रुरनिर्वेदाद्भयावहः
निहतश्च मया तत्र सोऽसुरो बन्धुभिः सह
तस्यास्यात्तु प्रवृत्तेन रुधिरौघेण तद्बिलम्
पूर्णमासीद्दुराक्रामं स्तनतस्तस्य भूतले
सूदयित्वा तु तं शत्रुं विक्रान्तं दुन्दुभेः सुतम्
निष्क्रामन्नेव पश्यामि बिलस्य पिहितं मुखम्
विक्रोशमानस्य तु मे सुग्रीवेति पुनः पुनः
यदा प्रतिवचो नास्ति ततोऽहं भृशदुःखितः
पादप्रहारैस्तु मया बहुशस्तद्विदारितम्
ततोऽहं तेन निष्क्रम्य यथा पुनरुपागतः
तत्रानेनास्मि संरुद्धो राज्यं मार्गयतात्मनः
सुग्रीवेण नृशंसेन विस्मृत्य भ्रातृसौहृदम्
एवमुक्त्वा तु मां तत्र वस्त्रेणैकेन वानरः
तदा निर्वासयामास वाली विगतसाध्वसः
तेनाहमपविद्धश्च हृतदारश्च राघव
तद्भयाच्च महीकृत्स्ना क्रान्तेयं सवनार्णवा
ऋश्यमूकं गिरिवरं भार्याहरणदुःखितः
प्रविष्टोऽस्मि दुराधर्षं वालिनः कारणान्तरे
एतत्ते सर्वमाख्यातं वैरानुकथनं महत्
अनागसा मया प्राप्तं व्यसनं पश्य राघव
वालिनस्तु भयार्तस्य सर्वलोकाभयंकर
कर्तुमर्हसि मे वीर प्रसादं तस्य निग्रहात्
एवमुक्तः स तेजस्वी धर्मज्ञो धर्मसंहितम्
वचनं वक्तुमारेभे सुग्रीवं प्रहसन्निव
अमोघाः सूर्यसंकाशा ममेमे निशिताः शराः
तस्मिन्वालिनि दुर्वृत्ते पतिष्यन्ति रुषान्विताः
यावत्तं न हि पश्येयं तव भार्यापहारिणम्
तावत्स जीवेत्पापात्मा वाली चारित्रदूषकः
आत्मानुमानात्पश्यामि मग्नं त्वां शोकसागरे
त्वामहं तारयिष्यामि कामं प्राप्स्यसि पुष्कलम्