Kishkindhakanda, Sarga 4, Verse 1
ततः प्रहृष्टो हनुमान्कृत्यवानिति तद्वचः
श्रुत्वा मधुरसंभाषं सुग्रीवं मनसा गतः
Containing 26 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततः प्रहृष्टो हनुमान्कृत्यवानिति तद्वचः
श्रुत्वा मधुरसंभाषं सुग्रीवं मनसा गतः
भव्यो राज्यागमस्तस्य सुग्रीवस्य महात्मनः
यदयं कृत्यवान्प्राप्तः कृत्यं चैतदुपागतम्
ततः परमसंहृष्टो हनूमान्प्लवगर्षभः
प्रत्युवाच ततो वाक्यं रामं वाक्यविशारदः
किमर्थं त्वं वनं घोरं पम्पाकाननमण्डितम्
आगतः सानुजो दुर्गं नानाव्यालमृगायुतम्
तस्य तद्वचनं श्रुत्वा लक्ष्मणो रामचोदितः
आचचक्षे महात्मानं रामं दशरथात्मजम्
राजा दशरथो नाम द्युतिमान्धर्मवत्सलः
तस्यायं पूर्वजः पुत्रो रामो नाम जनैः श्रुतः
शरण्यः सर्वभूतानां पितुर्निर्देशपारगः
वीरो दशरथस्यायं पुत्राणां गुणवत्तरः
राज्याद्भ्रष्टो वने वस्तुं मया सार्धमिहागतः
भार्यया च महातेजाः सीतयानुगतो वशी
दिनक्षये महातेजाः प्रभयेव दिवाकरः
अहमस्यावरो भ्राता गुणैर्दास्यमुपागतः
कृतज्ञस्य बहुज्ञस्य लक्ष्मणो नाम नामतः
सुखार्हस्य महार्हस्य सर्वभूतहितात्मनः
ऐश्वर्येण विहीनस्य वनवासाश्रितस्य च
रक्षसापहृता भार्या रहिते कामरूपिणा
तच्च न ज्ञायते रक्षः पत्नी येनास्य सा हृता
दनुर्नाम श्रियः पुत्रः शापाद्राक्षसतां गतः
आख्यातस्तेन सुग्रीवः समर्थो वानराधिपः
स ज्ञास्यति महावीर्यस्तव भार्यापहारिणम्
एवमुक्त्वा दनुः स्वर्गं भ्राजमानो गतः सुखम्
एतत्ते सर्वमाख्यातं याथातथ्येन पृच्छतः
अहं चैव हि रामश्च सुग्रीवं शरणं गतौ
एष दत्त्वा च वित्तानि प्राप्य चानुत्तमं यशः
लोकनाथः पुरा भूत्वा सुग्रीवं नाथमिच्छति
शोकाभिभूते रामे तु शोकार्ते शरणं गते
कर्तुमर्हति सुग्रीवः प्रसादं सह यूथपैः
एवं ब्रुवाणं सौमित्रिं करुणं साश्रुपातनम्
हनूमान्प्रत्युवाचेदं वाक्यं वाक्यविशारदः
ईदृशा बुद्धिसंपन्ना जितक्रोधा जितेन्द्रियाः
द्रष्टव्या वानरेन्द्रेण दिष्ट्या दर्शनमागताः
स हि राज्याच्च विभ्रष्टः कृतवैरश्च वालिना
हृतदारो वने त्रस्तो भ्रात्रा विनिकृतो भृशम्
करिष्यति स साहाय्यं युवयोर्भास्करात्मजः
सुग्रीवः सह चास्माभिः सीतायाः परिमार्गणे
इत्येवमुक्त्वा हनुमाञ्श्लक्ष्णं मधुरया गिरा
बभाषे सोऽभिगच्छामः सुग्रीवमिति राघवम्
एवं ब्रुवाणं धर्मात्मा हनूमन्तं स लक्ष्मणः
प्रतिपूज्य यथान्यायमिदं प्रोवाच राघवम्
कपिः कथयते हृष्टो यथायं मारुतात्मजः
कृत्यवान्सोऽपि संप्राप्तः कृतकृत्योऽसि राघव
प्रसन्नमुखवर्णश्च व्यक्तं हृष्टश्च भाषते
नानृतं वक्ष्यते वीरो हनूमान्मारुतात्मजः
ततः स तु महाप्राज्ञो हनूमान्मारुतात्मजः
जगामादाय तौ वीरौ हरिराजाय राघवौ
स तु विपुल यशाः कपिप्रवीरः; पवनसुतः कृतकृत्यवत्प्रहृष्टः
गिरिवरमुरुविक्रमः प्रयातः; स शुभमतिः सह रामलक्ष्मणाभ्याम्