Kishkindhakanda, Sarga 3, Verse 1
वचो विज्ञाय हनुमान्सुग्रीवस्य महात्मनः
पर्वतादृश्यमूकात्तु पुप्लुवे यत्र राघवौ
Containing 25 sacred Sanskrit shlokas with multi-author commentaries and translations.
वचो विज्ञाय हनुमान्सुग्रीवस्य महात्मनः
पर्वतादृश्यमूकात्तु पुप्लुवे यत्र राघवौ
स तत्र गत्वा हनुमान्बलवान्वानरोत्तमः
उपचक्राम तौ वाग्भिर्मृद्वीभिः सत्यविक्रमः
स्वकं रूपं परित्यज्य भिक्षुरूपेण वानरः
आबभाषे च तौ वीरौ यथावत्प्रशशंस च
राजर्षिदेवप्रतिमौ तापसौ संशितव्रतौ
देशं कथमिमं प्राप्तौ भवन्तौ वरवर्णिनौ
त्रासयन्तौ मृगगणानन्यांश्च वनचारिणः
पम्पातीररुहान्वृक्षान्वीक्षमाणौ समन्ततः
इमां नदीं शुभजलां शोभयन्तौ तरस्विनौ
धैर्यवन्तौ सुवर्णाभौ कौ युवां चीरवाससौ
सिंहविप्रेक्षितौ वीरौ सिंहातिबलविक्रमौ
शक्रचापनिभे चापे प्रगृह्य विपुलैर्भुजैः
श्रीमन्तौ रूपसंपन्नौ वृषभश्रेष्ठविक्रमौ
हस्तिहस्तोपमभुजौ द्युतिमन्तौ नरर्षभौ
प्रभया पर्वतेन्द्रोऽयं युवयोरवभासितः
राज्यार्हावमरप्रख्यौ कथं देशमिहागतौ
पद्मपत्रेक्षणौ वीरौ जटामण्डलधारिणौ
अन्योन्यसदृशौ वीरौ देवलोकादिवागतौ
यदृच्छयेव संप्राप्तौ चन्द्रसूर्यौ वसुंधराम्
विशालवक्षसौ वीरौ मानुषौ देवरूपिणौ
सिंहस्कन्धौ महासत्त्वौ समदाविव गोवृषौ
आयताश्च सुवृत्ताश्च बाहवः परिघोत्तमाः
सर्वभूषणभूषार्हाः किमर्थं न विभूषितः
उभौ योग्यावहं मन्ये रक्षितुं पृथिवीमिमाम्
ससागरवनां कृत्स्नां विन्ध्यमेरुविभूषिताम्
इमे च धनुषी चित्रे श्लक्ष्णे चित्रानुलेपने
प्रकाशेते यथेन्द्रस्य वज्रे हेमविभूषिते
संपूर्णा निशितैर्बाणैर्तूणाश्च शुभदर्शनाः
जीवितान्तकरैर्घोरैर्ज्वलद्भिरिव पन्नगैः
महाप्रमाणौ विपुलौ तप्तहाटकभूषितौ
खड्गावेतौ विराजेते निर्मुक्तभुजगाविव
एवं मां परिभाषन्तं कस्माद्वै नाभिभाषथः
सुग्रीवो नाम धर्मात्मा कश्चिद्वानरयूथपः
वीरो विनिकृतो भ्रात्रा जगद्भ्रमति दुःखितः
प्राप्तोऽहं प्रेषितस्तेन सुग्रीवेण महात्मना
राज्ञा वानरमुख्यानां हनुमान्नाम वानरः
युवाभ्यां सह धर्मात्मा सुग्रीवः सख्यमिच्छति
तस्य मां सचिवं वित्तं वानरं पवनात्मजम्
भिक्षुरूपप्रतिच्छन्नं सुग्रीवप्रियकाम्यया
ऋश्यमूकादिह प्राप्तं कामगं कामरूपिणम्
एवमुक्त्वा तु हनुमांस्तौ वीरौ रामलक्ष्मणौ
वाक्यज्ञौ वाक्यकुशलः पुनर्नोवाच किंचन
एतच्छ्रुत्वा वचस्तस्य रामो लक्ष्मणमब्रवीत्
प्रहृष्टवदनः श्रीमान्भ्रातरं पार्श्वतः स्थितम्
सचिवोऽयं कपीन्द्रस्य सुग्रीवस्य महात्मनः
तमेव काङ्क्षमाणस्य ममान्तिकमुपागतः
तमभ्यभाष सौमित्रे सुग्रीवसचिवं कपिम्
वाक्यज्ञं मधुरैर्वाक्यैः स्नेहयुक्तमरिंदमम्