Aranyakanda, Sarga 71, Verse 1
दिवं तु तस्यां यातायां शबर्यां स्वेन कर्मणा
लक्ष्मणेन सह भ्रात्रा चिन्तयामास राघवः
Containing 26 sacred Sanskrit shlokas with multi-author commentaries and translations.
दिवं तु तस्यां यातायां शबर्यां स्वेन कर्मणा
लक्ष्मणेन सह भ्रात्रा चिन्तयामास राघवः
चिन्तयित्वा तु धर्मात्मा प्रभावं तं महात्मनाम्
हितकारिणमेकाग्रं लक्ष्मणं राघवोऽब्रवीत्
दृष्टोऽयमाश्रमः सौम्य बह्वाश्चर्यः कृतात्मनाम्
विश्वस्तमृगशार्दूलो नानाविहगसेवितः
सप्तानां च समुद्राणामेषु तीर्थेषु लक्ष्मण
उपस्पृष्टं च विधिवत्पितरश्चापि तर्पिताः
प्रनष्टमशुभं यत्तत्कल्याणं समुपस्थितम्
तेन त्वेतत्प्रहृष्टं मे मनो लक्ष्मण संप्रति
हृदये हि नरव्याघ्र शुभमाविर्भविष्यति
तदागच्छ गमिष्यावः पम्पां तां प्रियदर्शनाम्
ऋश्यमूको गिरिर्यत्र नातिदूरे प्रकाशते
यस्मिन्वसति धर्मात्मा सुग्रीवोंऽशुमतः सुतः
नित्यं वालिभयात्त्रस्तश्चतुर्भिः सह वानरैः
अभित्वरे च तं द्रष्टुं सुग्रीवं वानरर्षभम्
तदधीनं हि मे सौम्य सीतायाः परिमार्गणम्
इति ब्रुवाणं तं रामं सौमित्रिरिदमब्रवीत्
गच्छावस्त्वरितं तत्र ममापि त्वरते मनः
आश्रमात्तु ततस्तस्मान्निष्क्रम्य स विशां पतिः
आजगाम ततः पम्पां लक्ष्मणेन सहाभिभूः
समीक्षमाणः पुष्पाढ्यं सर्वतो विपुलद्रुमम्
कोयष्टिभिश्चार्जुनकैः शतपत्रैश्च कीचकैः
एतैश्चान्यैश्च विविधैर्नादितं तद्वनं महत्
स रामो विधिवान्वृक्षान्सरांसि विविधानि च
पश्यन्कामाभिसंतप्तो जगाम परमं ह्रदम्
स तामासाद्य वै रामो दूरादुदकवाहिनीम्
मतङ्गसरसं नाम ह्रदं समवगाहत
स तु शोकसमाविष्टो रामो दशरथात्मजः
विवेश नलिनीं पम्पां पङ्कजैश्च समावृताम्
तिलकाशोकपुंनागबकुलोद्दाल काशिनीम्
रम्योपवनसंबाधां पद्मसंपीडितोदकाम्
स्फटिकोपमतोयाढ्यां श्लक्ष्णवालुकसंतताम्
मत्स्यकच्छपसंबाधां तीरस्थद्रुमशोभिताम्
सखीभिरिव युक्ताभिर्लताभिरनुवेष्टिताम्
किंनरोरगगन्धर्वयक्षराक्षससेविताम्
नानाद्रुमलताकीर्णां शीतवारिनिधिं शुभाम्
पद्मैः सौगन्धिकैस्ताम्रां शुक्लां कुमुदमण्डलैः
नीलां कुवलयोद्धातैर्बहुवर्णां कुथामिव
अरविन्दोत्पलवतीं पद्मसौगन्धिकायुताम्
पुष्पिताम्रवणोपेतां बर्हिणोद्घुष्टनादिताम्
स तां दृष्ट्वा ततः पम्पां रामः सौमित्रिणा सह
विललाप च तेजस्वी कामाद्दशरथात्मजः
तिलकैर्बीजपूरैश्च वटैः शुक्लद्रुमैस्तथा
पुष्पितैः करवीरैश्च पुंनागैश्च सुपुष्पितैः
मालतीकुन्दगुल्मैश्च भण्डीरैर्निचुलैस्तथा
अशोकैः सप्तपर्णैश्च केतकैरतिमुक्तकैः
अन्यैश्च विविधैर्वृक्षैः प्रमदेवोपशोभिताम्
अस्यास्तीरे तु पूर्वोक्तः पर्वतो धातुमण्डितः
ऋश्यमूक इति ख्यातश्चित्रपुष्पितकाननः
हरिरृक्षरजो नाम्नः पुत्रस्तस्य महात्मनः
अध्यास्ते तं महावीर्यः सुग्रीव इति विश्रुतः
सुग्रीवमभिगच्छ त्वं वानरेन्द्रं नरर्षभ
इत्युवाच पुनर्वाक्यं लक्ष्मणं सत्यविक्रमम्
ततो महद्वर्त्म च दूरसंक्रमं; क्रमेण गत्वा प्रविलोकयन्वनम्
ददर्श पम्पां शुभदर्श कानना;मनेकनानाविधपक्षिसंकुलाम्